पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७२

अथर्वसंहिताभाष्ये तस्मिन् । कृणोति । सुरुकृतस्य । भक्षम् । तस्मिन् । इन्दुः । पवते । विश्वs- दानीम् ॥ ५४॥ अथर्वा [एतन्नामकः अतीन्द्रियार्थद्रष्टा कश्चिद् ऋषिः] वाजिनीवते वाजः अन्नम् हविर्लक्षणम् अस्याम् अस्तीति वाजिनी यज्ञक्रिया । त- द्वते इन्द्राय पूर्णम् सोमादिहविषा पूरितं यं चमसम् अबिभः भूत-

वान् ।विभतेर्लङि प्रथ1मैकवचने रूपम् । इन्द्रप्रीत्यर्थ ह-

विर्भिः पूर्ण यं चमसं संभृतवान् इत्यर्थः । तस्मिन् चमसे सुकृतस्य सुष्टु कृतस्य यज्ञस्य2 संबन्धि भक्षम् भक्षणं हुतशिष्टहविषो भक्षणं कृणोति क- रोति । ऋत्विजां गण इत्यर्थः । तथा तस्मिन् अथर्वकृते चमसे विश्व- दानीम् सर्वदा इन्दुः सोमः पवते अमृतरसात्मकः स्रवति पूङ् पवने । भौवादिकः । विश्वदानीम् इति । विश्वशब्दाद् दानीं प्र- त्ययः ॥ पञ्चमी॥ यत् ते कृष्णः शकुन आतुतोद पिपीलः सर्प उत वा श्वापदः । अग्निष्टद् विश्वादगदं कृणोतु सोम॑श्च यो ब्राह्मणाँ आविवेश ॥ ५५ ॥ यत् । ते । कृष्णः । शकुनः । आऽतुनोद । पिपीलः । सर्पः । उत । वा । श्वापदः। अग्निः । तत् । विश्वऽअत् । अगदम् । कृणोतु । सोमः । च । यः । ब्राह्म- णान् । आऽविवेश ॥ ५५ ॥ हे पुरुष ते त्वदीयं यत् अङ्गं कृष्णः कृष्णवर्णः शकुन: पक्षी काका- दिः आतुतोद व्यथितं दष्टं कृतवान् । नुद व्यथने । तथा पिपीलः विषदंष्ट्रः3 पिपीलिकाविशेषः उत वा अपि वा सर्पः श्वापदः शुनः पदानीव पदानि यस्य स श्वापदो व्याघ्रादिः आतुतोदेति सर्वत्र संबध्यते । तद् अङ्गं विश्वात् विश्वं सर्वम् अत्तीति विश्वात् सर्वभक्षकः तथा १CP यः। २C विश्वऽ अस् । 18 मध्यमैक. 28' यज्ञसंबंधित यज्ञस्य संबन्धि. 35 देशः for °दंष्ट्र: