पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७१ [अ०३. सू०३.] ५४३ अष्टादशं काण्डम्। निदधत निक्षिपन् अहं मो रिषम् मैव हिंसितो भूवम् ॥ तत्र तस्याम् उत्तम्भनेन धृतायां भूम्यां ते त्वदर्थं पितरः पितृदेवताः एतां प्रसिद्धां स्थूणां तव गृहनिर्माणाय धारयन्ति स्थापयन्ति । यमस्तत्र ते तव साद- ना सदनानि गृहाणि कृणोतु करोतु ।“शेश्छन्दसि बहुलम्" इति शेर्लोपः५ ॥ तृतीया ॥ इममग्ने चमसं मा वि जिह्वरः मियो देवानामुत सोम्यानाम् । अयं यश्चमसो देवपानस्तस्मिन् देवा अमृता मादयन्ताम् ॥ ५३ ॥ इमम् । अग्ने । चमसम् । मा। वि। जिह्वरः । प्रियः । देवानाम् । उत । सोम्यानाम्। अयम् । यः। चमसः । देवऽपानः । तस्मिन् । देवाः । अमृताः । माद- यन्ताम् ॥ ५३॥ हे अग्ने इमं चीयमानं चमसम् भक्षणसाधनम् इडापात्रं मा वि जि- ह्वरः कुटिलं मा कार्षीः । ह्णृ कौटिल्ये । अस्माण्ण्यन्तात् लुङि चङि रूपम् । “न माड्योगे" इति अडभावः । यश्चमसो दे- वानाम् अन्यादीनां प्रियः प्रीतिकरः । उत अपि च सोम्यानाम् सो- मार्हाणां पितॄणां प्रियः । “उपहूता नः पितरः सोम्यासः” इति हि उक्तम् [४५] । देवपानः देवाः पिबन्ति अनेन अमृतम् इति देवपानः ॥ एवंगुणविशिष्टो योयं चमसस्तस्मिन् अमृताः अमरणधर्माणः सर्वे देवा इ. न्द्रादयो मादयन्ताम् माद्यन्तु । तत्रत्यहविरास्वादनेन तृप्ता भवन्तु इत्यर्थः ॥ चतुर्थी ॥ अथर्वा पूर्ण चमसं यमिन्द्रायाबिभर्वाजिनीवते । तस्मिन् कृणोति सुकृतस्य भक्षं तस्मिन्निन्दुः पवते विश्वदानीम् ॥ ५४॥ अथर्वा । पूर्णम् । चमसम् । यम् । इन्द्राय । अबिभः । वाजिनीऽवते । १K यमिन्द्रा'. Dc यमिंद्रा° changeel to यमिंदा We with A B C Rv. २ वा- जिनीऽषते ।।