पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१७० अथर्वसंहिताभाष्ये उतऽश्वञ्चमाना । पृथिवी । सु । तिष्ठतु । सहस्रम् । मितः । उप । हि । श्रयन्ताम्। ते। गृहासः । घृतऽश्चुतः । स्योनाः । विश्वाहा । अस्मै । शरणाः । सन्तु । अत्र ॥ ५१॥ उच्छृञ्चमाना उच्छूय1मानावयवा पुलकितशरीरा पृथिवी सु तिष्ठतु सु- खेन अवतिष्ठताम् । तत्र श्मंशानदेशे सहस्रम् सहस्रसंख्याका अपरिमि- ता मिथः मीयमानाः स्थाप्यमाना ओषधयः उप श्रयन्ताम् उपेत्य आ- श्रिता भवन्तु । हिशब्दो यस्मादर्थे । यस्माद् ओषधिवनस्पतयस्तत्र उ- पाश्रितास्तस्मात् ते घृतश्चुतः घृतस्राविणः अत एव स्योनाः सुखकरा अ- स्मै मृतपुरुषाय गृहासः गृहाः विश्वाहा सर्वाणि अहानि । अ- त्यन्तसंयोगे द्वितीया । सर्वकालम् अत्र 2श्मशानदेशे शरणाः रक्ष- काः सन्तु भवन्तु ॥ द्वितीया ॥ उत्ते स्तभ्नामि पृथिवीं त्वत् परीमं लोगं निदधन्मो अहं रिषम् । एतां स्थूणां पितरो धारयन्ति ते तत्र यमः सादना ते कृणोतु ॥ ५२ ॥ उत् । ते । स्तन्नामि । पृथिवीम् । त्वत् । परि । इमम् । 3लोगम् । निडद- धत् । मो इति । अहम् । रिषम् । एताम् । स्थूणाम् । पितरः । धारयन्ति । ते । तत्र । यमः । सदना । ते। कृणोतु ॥ ५२ ॥ हे मृतपुरुष ते तुभ्यं त्वदर्थम् इमां पृथिवीम् उत् ऊर्ध्वं स्तभ्नामि धारयामि । ष्टभि स्कभि गतिप्रतिबन्धे । त्रयादित्वात् श्ना प्रत्य- यः॥ त्वत् परि तव परितः इमं लोकम् सर्वप्राण्यधिष्ठितं भूलोकं १Cr सयंताम्। 2 Cr च्युतः ।. P°श्युतः। श्रुतः। ३ Cr अस्मै । * R लोकं. De लोकं cirangeal to लोग. P लोकम् ।. P लोगम् ।. We witli A BCDKV. A BC RV D रिपन्. PF रिपन् ।. C रिपन् ।. We with k. 28 स्मशान. Siyana's text too : मिथः. 18 °मानावयवावा.