पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६. अथर्वसंहिताभाष्ये वा इन्द्रेण देवैः अन्यैश्च सरथम समानो रथो यया भवति तथा । व- र्तन्त इति शेषः । इन्द्रेण देवैः सह एकं रथम् उपारूढा वर्तन्त इत्य- र्थः । तैः सुविदत्रेभिः सुविदत्रैः शोभनधनैः शोभनप्रज्ञैर्वा परैः उत्कृष्टैः पूर्वैः पूर्वपुरुषैः पितृपितामहप्रपितामहैः ऋषिभिः अतीन्द्रियार्थदर्शिभिः धर्मसद्भिः यज्ञे सीदद्भिः एवंगुणविशिष्टपितृभिः सह हे अमे वम् अ- र्वाङ् अस्मदभिमुखः सन् आ याहि [आ]गच्छ ॥ नवमी ॥ उप सर्प मातरं भूमिमेतामुरुव्यचसं पृथिवीं सुशेवाम् । ऊर्णम्रदाः पृथिवी दक्षिणावत एषा त्वां पातु प्रपथे पुरस्तात् ॥४९॥ उप । सर्प । मातरम् । भूमिम् । एताम् । उरुऽव्यर्चसम् । पृथिवीम् सुऽशेवाम्। ऊर्णऽम्रदाः । पृथिवी । दक्षिणाऽवते । एषा । त्वा । पातु । प्रऽपथे । पुरस्तात् ॥ ४९॥ हे प्रेत मातरम् जननीम् एतां भूमिम् उप सर्प उपगच्छ । कीदृ- शीम् । उरुव्यवसम् । व्यचतिर्व्याप्तिकर्मा। विस्तीर्णव्यापनां पृथिवीम् प्रथितां प्रख्यातां सुशेवाम् सुसुखाम् ॥ एषा त्वया उपसृप्ता पृथिवी दक्षिणावते दक्षिणा अस्य सन्तीति दक्षिणावान् बह्नीभिर्यज्ञसंब- धिनीभिर्दक्षिणाभिर्युक्ताय तुभ्यम् ऊर्णम्रदाः ऊर्णाभिर्विरचितकम्बलवन्म्र- दीयसी मार्दवेन सुखकरी सती पुरस्तात् पूर्वस्यां दिशि पूर्वमेव वा प्र- पथे पथे मार्गस्य प्रारम्भः प्रपथः । “ऋक्पूरब्धूः" इति अ- कारः समासान्तः । तत्र वर्तमानं त्वा वां पातु रक्षतु ॥ दशमी॥ उच्छ्वञ्चस्व पृथिवि मा नि बाधथाः सूपायनास्मै भव सूपसर्पणा । माता पुत्रं यर्था सिचाभ्येनं भूम ऊर्णुहि ॥ ५० ॥ (१७) बांधयाः, We with A BC De.