पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू०३.] ५४३ अष्टादशं काण्डम। १६७ आ। अग्ने। याहि । सहस्रम् । देवऽवन्दैः । सत्यैः । कविऽभिः । ऋषिऽ- भिः। धर्मसतऽभिः ॥ ४७॥ देवत्रा देवेषु जेहमानाः । जेह प्रयत्ने । 'प्रयतमानाः व्याप्रियमाणा होत्राविदः होत्राः सप्त वषट्कर्तारः । तत्कृतान् यागान् जा- नन्तः अर्कैः अर्चनीयैः स्तोत्रैः स्तोमतष्टासः स्तोमस्य स्तुतेः [1कर्तारः स्तोमकर्तारः। तक्षू तनूकणे । तस्मात् कर्तरि [निष्ठा]z। ए. वंगुणविशिष्टा ये पितरः तातृषुः तृष्यन्ति पिपासन्ति । तैर्देववन्दैः देवान् व2न्दन्ते प्रणमन्तीति देववन्दाः [तैः] सत्यैः सत्यफलैः कविभिः क्रान्तद- र्शिभिर्ऋषिभिः अतीन्द्रियद्रष्टृभिः धर्मसद्भिः धर्मः प्रवर्ग्यः तदुपलक्षिते सोमयागे सीदन्तीति धर्मसदः । सहार्थयोगे तृतीया । एवं- गुणविशिष्टैः पितृभिः सह हे अग्ने त्वम् अस्माकं सहस्रम् अपरिमितं धनं यथा भवति तथा आ याहि आगच्छ । आगत्य च अस्मदीयेन हविषा पितॄणां तृषं निवर्तयेति भावः ॥ अष्टमी॥ ये सत्यासो हविरदो हविष्यां इन्द्रेण देवैः सरथं तुरेण । आग्ने याहि सुविदत्रेभिरर्वाङ् परैः पूर्वैर्ऋषिभिर्धर्मसद्भिः ॥ ४ ॥ ये। सत्यासः । हविःऽअदः । हविःऽपाः । इन्द्रेण । देवैः । सऽरथम् । तुरेण । आ। अग्ने । याहि । सुऽविदत्रैभिः । अर्वाङ् । परैः । पूर्वैः । ऋषिऽभिः । धर्मसतऽभिः ॥ ४ ॥ ये पितरः सन्यासः सत्याः सत्प्रभवाः सत्यभाषणोपेता वा हविरदः हवींषि चरुपुरोडाशादीनि अदन्ति भक्षयन्तीति हविरदः । हविष्याः ह- विः सोमरसं पिबन्तीति हविष्याः । तुरेण त्वरमाणेन शत्रूणां हिंसकेन PC ऋषिभिः । Is not the मध्योदात्त to the accounteel for lhy the fact that the Rirela reading (पितृभिः in 15.0, 10) is मध्योदात्त? २ A B हविष्या, Iul might he intended for हविष्पा. We with ck RV Dr. 18 leaves a blank space for about ten letters. 28' वंदते.