पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये वन्तु अधिवचनं पक्षपातेन वचनम् । 1अधिवचनेन अस्मान् स्वीकुर्वन्तु । न केवलम् अधिवचनमात्रम् अपि तु ते पितरः अस्मान् अवन्तु ऐहि- कामुष्मिकफलप्रदानेन रक्षन्नु ॥ षष्ठी ॥ ये नः पितुः पितरो ये पितामहा अनूजहिरे सोमपीथं वसिष्ठाः । तेभिर्यमः सैरराणो हवींष्युशन्नुशद्भिः प्रतिकाममत्तु ॥ ४६ ॥ ये। नः । पितुः । पितरः । ये। पितामहाः । अनुऽजहिरे । सोमऽपीथम् । वसिष्ठाः। तेभिः । यमः । समऽरराणः । हवींषि । उशन् । उशत्ऽभिः । प्रतिऽका- मम् । अत्तु ॥ ४६॥ नः अस्माकं पितुर्जनकस्य ये पितरः सन्ति ये च पितामहास्तजनका व2सिष्ठाः वसुमत्तमाः एवंगुणविशिष्टा ये पितृपितामहप्रपितामहाः सो- मपीथम् सोमपानम् अनुजहिरे अनुक्रमेण हरन्ति आत्मसात् कुर्वन्ति स्म तेभिस्तैः 3पितृभिः संरराणः सह रममाणो यमः उशन कामयमानः उ- शद्भिः कामयमानैस्तैः पितृभिः सह हवींषि अस्मदीयानि चरुपुरोडाशा- दीनि हवींषि प्रतिकामम् । कामः अभिलाषः । अभिलाषं प्रति । अ- भिलाषानुसारेणेत्यर्थः । अत्तु भक्षयतु ॥ सप्तमी॥ ये तातृषुर्देवत्रा जेहमाना होत्राविदः स्तोम॑तष्टासो अर्कैः । अग्ने याहि सहस्रं देववन्दैः सत्यैः कविभिर्षिभिर्धर्मसद्भिः ॥ ४७ ॥ ये। ततृषुः । देवऽत्रां । जेहमानाः । होत्राऽविदः । स्तोम॑तष्टासः । अर्कैः । kv D¢ अनुजहीरे. A B अनुजहिरे. C अनूजहिरे. R अनूजहीरे. Cr अनु जहिरे । PP अनुऽजहिरे। Sityana's toist : अनूजहिरे. The Pilverlee reading is अनूहिरे, of which अनूजहिरे muys lye a perversion. २ Cr सोमऽपीथम् । ३CP देषत्रा।.. 18' आधिक. 28 वशिष्ठाः. 38 पितृभिः सह संरराणः रममाणः.