पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू°३.] ५४३ अष्टादशं काण्डम् । "ति । ये वै यज्वानस्ते पितरो बर्हिषदः तानेव तद् यजति ॥ पितृन् "अग्निष्वात्तान् यजति । ये वा अयज्वानो गृहमेधिनस्ते पितरोग्निष्यात्ताः" इति [तै ब्रा०१.६.९.६] । कृतसोमयागाः पितरो बर्हिषासंज्ञकाः अ- कृतसोमयागास्तु अग्निष्वातसंज्ञका इत्यर्थः । हे एतासंज्ञकाः पितरः इह अस्मिन् यज्ञे आ गच्छत ॥ हे सुप्रणीतयः । प्रणीतिः प्रकृष्टं फलप्राप- णम् । शोभना प्रणीतिर्येषां ते तथोक्ताः । आगतास्ते यूयं सदःसदः । सी1दन्ति अस्मिन्निति सदः उपवेशनस्थानम् पितृपितामहप्रपितामहादीनां य- धत स्थानं परिकल्पितं तत् स्थानं सदत प्राप्नुत । स्वेस्वे स्थाने उपविशते- त्यर्थः ॥ बर्हिषि यज्ञे प्रयतानि प्रतानि यद्वा शुद्धानि हवींषि चरुपुरोडा- शादीनि अत्तं भक्षयत ॥ हविरदनेन संतुष्टा यूयं नः अस्मभ्यं सर्ववीरम् सर्वैर्वीरैरुपेतं रयिम् धनं दधातनं धत्त । प्रयच्छतेत्यर्थः । डुधाञ् दानधारणयोः । लोटि "तप्तनप्तनथनाश्च" इति तस्य तनबादेशः ॥ पञ्चमी॥ उपहूता नः पितरः सोम्यासो बर्हिष्येषु निधिषु प्रियेषु । त आ गमन्तु त इह श्रुवन्त्वधि ब्रुवन्तु तेडवन्त्वस्मान् ॥ ४५ ॥ उपऽहूताः । नः । पितरः । सोम्यासः । बर्हिष्येषु । निऽधिषु । प्रियेषु । ते । आ । गमन्तु । ते । इह । श्रुवन्तु । अधि । ब्रुवन्तु । ते । अवन्तु । अ- __ स्मान् ॥ ४५ ॥ नः अस्माकं पितरः उपहूताः समीपम् आहूताः ॥ सोम्यासः सो- म्याः सोमार्हा एवंगुणविशिष्टाः पितृपितामहप्रपितामहाः बर्हिष्येषु बर्हि- षि यज्ञे भवा बर्हिष्याः तेषु प्रियेषु प्रीतिविषयेषु निधिषु निधीयमाने- षु हविःषु सासु प्रागुदीरितास्ते पितरः आ गमन्तु आगच्छन्तु ॥ इह अस्मिन् यज्ञे ते पितरः श्रुवन्तु अस्मदीयं स्तोत्रं शृण्वन्तु । श्रु श्रवणे । “बहुलं छन्दसि" इति विकरणस्य लुक् । अधि ब्रु- १ CP प्रवंतु । 18 सीदति.