पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१६०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१६४ अथर्वसंहिताभाष्ये तृतीया ॥ आसीनासो अरुणीनामुपस्थे रयिं धत दाशुषे मर्त्याय । पुत्रेभ्यः पितरस्तस्य वस्वः प्र यच्छत त इहोर्जं दधात ॥ ४३ ॥ आसीनासः । अरुणीनाम् । उपऽस्थे । रयिम् । धत्त । दाशुषे। मर्त्याय । पुत्रेभ्यः । पितरः । तस्य । वस्वः । प्र । यच्छत । ते । इह । ऊर्जम् । द- धात ॥ ४३ ॥ हे पितरः अरुणीनाम् अरुणवर्णानां मातृणाम् उपस्थे उत्सङ्गे आ- सीनासः आसीना उपविशन्तो दाशुषे हविर्दत्तवते मर्त्याय मरणधर्मणे य- जमानाय रयिम् धनं धत्त दत्त प्रयच्छत ॥ पुत्रेभ्यः । पुंनाम्नो नरकात त्रायन्त इति पुत्राः । तेभ्यः अस्मभ्यं तस्य वस्वः । कर्मणि ष- ष्ठी x। तत् प्रसिद्धं वसु धनं प्रयच्छत दत्त । दाण् दाने । "पाप्राध्मास्थाम्ना]दाण्" इत्यादिना यच्छादेशः ॥ हे पितरः ते यूयम् इह अस्मिन भूलोके ऊर्जम् बलकरम् अन्नम् अस्मभ्यं दधात धत्त॥ चतुर्थी ॥ अग्निष्वात्ताः पितर एह गच्छत सदःसदः सदत सुप्रणीतयः । अत्तो हवींषि प्रयतानि बर्हिषि रयिं च नः सर्ववीरं दधात ॥ ४४ ॥ अग्निऽस्वाताः । पितरः । आ । इह । गच्छत । सदःऽसदः । सदत । सुऽ- प्रनीतयः। अत्तो इति । हवींषि । प्रऽयतानि । बर्हिषि । रयिम् । च । नः । सर्वऽवी- रम् । दधात ॥ ४४ ॥ हे अग्निष्वात्ताः [पितरः] । पितरो द्विविधाः । बर्हिषदः अग्निष्वात्ता- श्चेति । तेषां भेदस्तैत्तिरीयके स्पष्टम् आम्नातः । “पितॄन बर्हिषदो यज- १ BV वसु. Do वस्वः changed to वसु. CP वसु ! PP वस्वः।. We with A CK R. So we read with A BC k RV Dc.