पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू०३.] ५४३ अष्टादशं काण्डम् । १६३ णीत इति पूर्वत्रापि संबध्यते । देवानां कं मृत्यु नावृणीत । सर्वमपि मृत्युं वृतवान् । अतस्तेषाम् अमृतत्वसिद्धये तैः प्रार्थितो बृहस्पतिः ऋ- षिर्भूत्वा यज्ञम् अतनुत । तस्माद् यज्ञात् ते देवा अमृताः संपन्नाः । तथा प्रजायै मनुष्यादिरूपायै किमपि अमृतं नावृणीत अतः सा मर्त्या भूता । तस्माद् यमो मनुष्यादिशरीरम् आरेचितवान इति ॥ द्वितीया ॥ त्वमग्न ईडितो जातवेदोडवाड्ढव्यानि सुरभीणि कृत्वा। प्रादाः पितृभ्यः स्वधया ते अक्षन्नद्धि त्वं देव प्रयता हवीषि ॥ ४२ ॥ त्वम् । अग्ने । ईडितः । जातऽवेदः । अवाट् । हव्यानि । सुरभीणि । कृत्वा । प्र। अदाः । पितृऽभ्यः । स्वधा । ते । अक्षन् । अद्धि । त्वम् । देव । प्रऽयं- ता। हवीषि ॥ ४५॥ हे जातवेदः जातानां जनिमतां प्राणिनां वेदितः हे अग्ने ईळिंतः अ- स्माभिः स्तुतस्वं हव्यानि अस्मदीयानि चरुपुरोडाशादीनि सुरभीणि सु- गन्धीनि रसवन्ति कृत्वा अवाट् देवेभ्यो वह । “छन्दसि लुङ्ल- ङ्लिटः” इति लोडर्थे लुङ् । वह प्रापणे इत्यस्मात् लुङि सिपि “ब- हुलं छन्दसि" इति इडभावे "झलो झलि” इति सिज्लोपः । “हल्- ड्याभ्यः" इति सलोपे रूपम् ॥ तथा पितृभ्यः पितृदेवताभ्यः स्वधया स्वधाकारेण सह कव्यसंज्ञकानि हवींषि प्रादाः प्रतवान् असि । ते च पितरस्त्वया दत्तानि कव्यानि हवींषि अक्षन् अभुञ्जत । अ- द भक्षणे । “लुङ्सनोर्घस्लृ" इति घस्लादेशः । “मन्त्रे पसह्वर" इत्यादिना च्लेर्लुक् । “गमहनजनस्वनपसां लोप: ०" इति उपधालोपः । चार्वषत्वे॥ हे देव द्योतमान अग्ने त्वमपि 1प्रयता प्रयतानि प्रक- र्षेण अस्माभिर्दत्तानि हवींषि अद्धि भुङ । अद भक्षणे । “हु- झल्भ्यो हेर्धिः" इति हेर्धिरादेशः ४ ॥ 1 प्रयाता.