पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

अथर्वसंहिताभाष्ये १६२ तत्र प्रथमा॥

देवेभ्यः कमवृणीत मृत्यु प्र॒जायै किममृतं नावृणीत । बृहस्पतिर्यज्ञमतनुत ऋषिः प्रियां यमस्तन्व मा रिरेच ॥ ४१ ॥ देवेभ्यः । कम्। अवृणीत । मृत्युम् । प्रऽजायै। किम्।अमृतम्।न। अवृणीत। बृहस्पतिः । यज्ञम् । अतनुत । ऋषिः । प्रियाम् । यमः । तन्वमि । आ । रिरेच ॥४१॥ देवेभ्यः दीव्यन्तीति देवाः इन्द्रादयः । तेभ्यः । तादर्थ्ये चतु- र्थी । तदर्थं कम् कीदृशं मृत्युम् अवृणीत सृष्ट्यादौ विधाता वृत- वान् । देवानाम् अर्थे स्रष्टा कमपि मरणहेतुं न कृतवान् इत्यर्थः काका द्योत्यते । अतो देवानां मृत्युसंबन्धविरहात् तेषाम् अमृतत्वम् उत्पत्तिसि- द्धम् इत्यर्थः । प्रजायते उत्पद्यत इति प्रजा मनुष्यादिरूपा । तस्यै वेधाः [किम्] किंकारणम अमृतम् अमरणं न अवृणीत न वृतवान् । म- नुष्यादीनां देववद् अमृतत्वं न कृतवान् । तत्र कारणं किमपि नास्तीत्य- र्थः । प्रजापतिना केचन इन्द्राद्याः अमृताः सृष्टाः मनुष्याद्याः प्राणि- नो मरणधर्मोपेताः कल्पिताः । अतो देवानाम् अमरणं मनुष्याणां म- रणं च अनादिसिद्धम् । अतस्तत्र कारणगवेषणं न कार्यम इत्यर्थः ॥ बृहस्पतिः बृहतां महतां देवानां पतिः स्वामी ऋषिः अतीन्द्रियार्थद्रष्टा यज्ञम् सोमयागम् अतनुत अकरोत् । भूलोके ऋषिरूपेणावस्थितो बृहस्प- तिः स्वस्य ऐहिकामुष्मिकफलप्राप्तये तत्प्राप्त्युपायभूतं1 यज्ञं कृतवान् इत्य- र्थः । श्रूयते हि । “बृहस्पतिरकामयत देवानां पुरोधां गच्छेयम् इति । स एतं बृहस्पति[सवम् अपश्यत् । तम् आहरत् । तेनायजत" इति तै. ब्रा २.७.१.२] । बृहस्पतेः प्रियां तन्वम् प्रेमास्पदं मानुषं शरीरं य- मो वैवस्वतः आ रिरेच आसमन्ताद् रितं निःसारं मृतं कृतवान् । ऋ- षिरूपेणावस्थितस्य बृहस्पतेरपि यमः प्राणान् अपाहार्षीत् किल किमु व- क्तव्यम् अन्येषां मनुष्यादीनां यमः प्राणान् अपहरतीति । यद्वा नावृ- IS units the anusvåra in Tai.