पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू०३.] ५४३ 'अष्टादशं काण्डम् । १६१ द्युस्थानानि अन्वरोहत् क्रमेण आरूढवान् । प्राप्तवान् इत्यर्थः । केन साधनेन इत्याह । एतत् एतेन अनुष्ठीयमानेन व्रतेन कर्मणा पैतृमेधि- कसंस्कारेण चतुष्पदीम् चत्वारः पादा यस्याः सा तथोक्ता • ताम् अनु- स्तरण्याख्यां गाम् अनुलक्ष्य । अन्वरोहद् इति संबन्धः । संस्कारमा- हात्म्येन 1मृतो लोकत्रयं व्याप्नोद् इत्यर्थः । अक्षरेण । अश्नुते व्याप्नोति स्वफलभूतं स्थानम् इत्यक्षरं स्वार्जितं सुकृतम् । यद्वा 2क्षरो विनाशः । तद्रहितम् । तेन स्वार्जितेन सुकृतेन । यद्वा परिच्छेदकशरीरे त्यक्ते 3अ- क्षरेण व्यापकेन विनाशरहितेन आत्मस्वरूपेण अर्कम् अर्चनीयं सुकृतफ- लं स्वर्गादिकं सूर्यमेव वा प्रति मिमीते प्रतिमुखं मिमीते परिच्छिन- न्ति । व्याप्नोतीत्यर्थः । यहा प्रतिमानं प्रतिबिम्बम् । सूर्यस्य प्रतिबिम्बं भवति । सूर्यसदृशो भवतीत्यर्थः । ऋतस्य योनौ । ऋतम् इति सत्य- स्य उदकस्य यज्ञस्य वा नामधेयम् । तस्य योनिः उत्पत्तिस्थानं सूर्यम- ण्डलम् तत्र अभि अभितः सर्वतः आभिमुख्येन वा सं पुनाति सम्यक् पूतो वर्तते ॥ [इति] तृतीयेनुवाके चतुर्थं सूक्तम् ॥ "देवेभ्यः कम्" इत्यादिकं पञ्चमं सूक्तम् । तत्र "त्वमग्न ईळित" इ- त्यनया पिण्डपितृयज्ञे समिधम् आदध्यात् । “त्वमग्न ईळिंतः [१६.३.४२] आ त्वाग्ने [१६.४.४] इत्यादधाति" इति हि [को०११.१०] सूत्रम् ॥ "अग्निष्वात्ताः पितरः” [४४] इत्यनया पिण्डपितृयज्ञे बर्हिः स्तृणीयात् ॥ "उपहूता नः पितरः" [४५] इति उत्तराभ्यां द्वाभ्यां च पिण्डपितृ- यज्ञे बर्हिः स्तृणीयात् ॥ "ये तातृषुः” [४७] इत्यूचा “ये सत्यासः" [४] इत्युत्तरया च पि- ण्डपितृयज्ञे समिधावादध्यात् ॥ उप सर्प"[४९] इति तिसृभिर्ऋग्भिः 3श्मशानदेशं शलाकाभिः इ. ष्टकाभिर्वा प्रसव्यं चिनुयात् ॥ 18' त्यामृतो for मृतो. 28' अक्षरो° for क्षरो. 38 तिसृक्षरेण for अक्षरेण. 18 स्मशान. २१