पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू०३.] ५४३ अष्टादशं काण्डम् । १५९ इतः । च । मां । अमुतः । च । अवताम् । यमे इवेति यमेऽइव । यतमाने इति । यत् । ऐतम्। प्र। वाम् । भरन् । मानुषाः । देवड्यन्तः । आ । सीदतांम। स्वम् । ऊं इ. ति। लोकम् । विदाने इति ॥ ३ ॥ इ1तश्च इतः अस्माद् भूलोकाद् अमुतश्च अमुष्मात् स्वर्गलोकात् लोक- द्वयावस्थिताद् भयहेतोः मा मां यजमानम् अवताम् हविर्धाने रक्षताम् । इति परोक्षकृतो निर्देशः ॥ 2अथ प्रत्यक्षकृतः । [हे] हविर्धाने यमे इव यमले युगपद् उत्पन्ने अपत्ये इव यतमाने समानव्याप्रियमाणे जगतः पो- षणाय प्रयत्नं कुर्वाणे [3यत् यस्मात् कारणाद् युवाम् ऐतम् गच्छथः] ॥ वाम् युवाभ्यां देवयन्तः देवान् आत्मन इच्छन्तो मानुषाः मनुष्या ऋत्वि- ग्यजमानाः प्र भरन् हवींषि समभरन् । तदानीं युवां स्वम् स्वकीयं लोकम् स्थानं 4विदांने जानती आ 5सीदतम् उपविशतम् । उ इति पदपूरणः ॥ नवमी॥ स्वासंस्थे भवतमिन्दवे नो युजे वां ब्रह्म पूर्व्यं नमोभिः । वि श्लोक एति पथ्थेवि सूरिः शृण्वन्तु विश्वे अमृतास एतत् ॥ ३९ ॥ स्वासंस्थे इति सुऽआसस्थे । भवतम् । इन्दवे। नः।युजे। वाम्। ब्रह्म । पूर्व्यम् । नमःऽभिः। वि।श्लोकः । एति। पथ्याडइव सूरिः। शृण्वन्नु। विश्वे। अमृतासः। एतत्॥३९॥ हे हविर्धाने नः अस्माकम् इन्दवे सोमाय स्वासस्थे सुखासनस्थ सु- स्थिरे भवतम् । अहं च वाम् युवयोः पूर्व्यम् पूर्वकाले भवं चिरंतनं ब्रह्म परिवृढं स्तोत्रं नमोभिः नमस्कारैः सहितं युजे युनज्मि । यद्वा १CP मा. See note on previous page. 18 इतश्च लोपः for इतश्च. Sin-crts अथ प्रत्यक्षकृतो निर्देशः lione अथ प्रत्यक्ष- ga:. 38 has no empty space in place of this bracket. 18 विजाने for विदाने. 58 जानत्यौ for जानती.