पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५ अथर्वसंहिताभाष्ये नफलभूतं स्वर्ग यथा सा पालयति तद्वत् ॥ लोककृतः स्वर्गादिलोकस्य कर्तृन् यजामहे हविर्भिः पूजयामः । देवानाम् हविर्भुजां मध्ये हे देवाः ये यूयम् इह अस्मिन लोके हुतभागाः स्थ भवथ ॥ षष्ठसप्तमौ द्वौ यजुर्मन्त्रौ ॥ धर्तासि धरुणोसि वंसंगोसि ॥ ३६ ॥ धर्ता । असि । धरुणः । असि । वंसंगः । असि ॥ ३६ ॥ उदपूरसि मधुपूरसि वातपूरसि ॥ ३७ ॥ उद्ऽपूः । असि । मधुऽपूः । असि । वातऽपूः । असि ॥ ३७ ॥ हे अग्ने त्वं 1धर्तासि सर्वेषां धारयितासि । धरुणः । धार्यत इति धरु- णः।धारेणिलुक् च [उ ३.५] इति उनन् प्रत्ययः ।गा- र्हपत्यादिरूपेण सर्वैर्धार्यमाणोसि । वंसगः वननीयगतिर्वृषभः असि भ- वसि । तथा "चत्वारि शृङ्गा” इत्यस्याम् ऋचि [१०४.५६.३] वृषभरूपकल्पनाग्नेः समाम्नाता । अत एव “तिग्मशृङ्गो न वंसगः" इति अन्यत्रापि [ऋ०६.१६.३९] आम्नातम् ॥ तथा हे अग्ने त्वम् उदपूः उदकस्य पूरयितासि । तथा मधुपूः मधुनो माक्षिकस्य पूरयि- ता असि भवसि । तथा वातपूः वातस्य प्राणात्मकस्य वायोः पूरयिता असि भवसि । एवंगुणविशिष्टस्वम् इमं यजमानं पालयेत्यर्थः ॥ सोमयागे हविर्धानाख्यशकटे प्रवर्त्यमाने "इतश्च मा" इति द्वाभ्याम् अभिमन्त्रयेत । तथा च वैतानं सूत्रम् । “हविर्धाने प्रवर्त्यमाने इतश्च मेति द्वाभ्याम् अनुमन्त्रयते” इति [वै० ३.५] ॥

अष्टमी ॥ इतश्च मामुतश्चावतां यमे ईव यतमाने यदैतम् । प्र वो भरन् मानुषा देवयन्तो आ सीदतां स्वमु लोकं विदाने ॥ ३ ॥ C cancels op anoi reads on. We with A BR Ř V DE. A Cated corrent- rd to qua. We with BËRV De, and Sayaga's text. AKBRV DC atarai. सीदतं. PP सीदताम्।. C सीदताम् ।. 1S las a blauk space for about twelve letters instead of Enai Nº.