पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५७ [अ°३. सू°३.] ५४३ 'अष्टादशं काण्डम् । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ॥३३॥ उदीच्याम् उत्तरस्यां दिशि अन्यत् पूर्ववत् ॥ चतुर्थी ॥ ध्रुवायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युतः पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३४ ॥ ध्रुवायाम् । त्वा । दिशि । पुरा । समऽवृतः । स्वधायाम् । आ । दधामि । बाहुऽच्युता । पृथिवी । धाम्ऽईव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥३४॥ ध्रुवा स्थिरा अधरा दिक् । तस्यां दिशि ॥ गतम् अन्यत् ॥ पञ्चमी ॥ ऊर्ध्वाया त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३५ ॥ ऊर्धायाम् । त्वा। दिशि । पुरा । समऽवृतः । स्वधायाम् । आ। दधामि । बाहुऽच्युता । पृथिवी । द्यामऽइव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥३५॥ ऊर्धायाम् उपरितन्यां दिशि हे प्रेत त्वा त्वां स्वधायाम् स्वधाकारे आ दधामि स्थापयामि पुरा पूर्वमेव संवृतः प्रावृतोऽहम् ॥ बाहुच्युता पुण्यकृतां बाहुभिर्दता पृथिवी च त्वां पातु । उपर्यवस्थितां द्यामिव दा- CP El