पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५६ अथर्वसंहिताभाष्ये लोककृतः पथिकृतो यजामहे ये देवाना हुतभागा इह स्थ ॥ ३१ ॥ दक्षिणायाम् । वा। दिशि । पुरा । समऽवृत्तः । स्वधायाम् । आ । दधा- मि। बाहुऽच्युता । पृथिवी । द्यामऽईव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ ३१॥ हे प्रेत त्वा त्वां दक्षिणायां दिशि दक्षिणदिग्भागे पुरा पूर्वमेव संवृ- तः आत्मरक्षार्थे1 कम्बलादिना प्रावृतः स्वधायाम् पितृदेवतायाम् आ द- धामि स्थापयामि । स्वधाकारभाजं करोमीत्यर्थः ॥ अन्यद् व्याख्यातम् ॥ द्वितीया ॥ प्रतीच्या वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ ३२ ॥ प्रतीच्याम् । त्वा । दिशि । पुरा । समऽवृतः । स्वधायाम् । आ । दधामि । बाहुऽच्युता । पृथिवी । द्यामऽइव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥ ३२ ॥ दहनदेशात् पश्चिमायां दिशि पुरा संवृत इत्यादि पूर्ववत् ॥ तृतीया ॥ उदीच्यां वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुताभागा इह स्थ ॥ ३३ ॥ उदीच्याम् । वा । दिशि । पुरा । समऽवृतः । स्वधायाम् । आ । दधामि। बाहुऽच्युता । पृथिवी । द्यामऽईव । उपरि । 18 omits the anustiire in रक्षार्थ.