पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५५ [अ°३. सू°३.] ५४३ • अष्टादशं काण्डम्। विता सर्वप्रेरकः सूर्यः भानुम् दीप्तां धाम धुलोकं यथा उपरि धारयति तद्वद् इत्यर्थः ॥ लोककृत इत्यादि पूर्ववद् व्याख्येयम् ॥ दशमी ॥ प्राच्यां त्वा दिशि पुरा संवृतः स्वधायामा द॑धामि बाहुच्युतां पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवाना हुतांगा इह स्थ ॥ ३० ॥(१५) प्राच्याम । वा । दिशि । पुरा । समऽवृतः । स्वधायाम् । आ । दधामि । बाहुऽच्युता । पृथिवी । द्याम्ऽईव । उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्य॥३०॥ (१५) प्राच्यां दहनदेशात् पूर्वस्यां दिशि पुरा पूर्व् संवृतः संछादितः कम्ब- लेन आवेष्टितोहम् यद्वा पू: शरीरम् तेन संवृतः सशरीर एव सन् हे प्रेत त्वा त्वां स्वधायाम् पितॄणां तृप्तिकरी देवता स्वधा तस्याम् आ द- धामि स्थापयामि । संस्कारकर्मणा प्रेतत्वप्रच्युतिपूर्वकं1 पितृदेवतात्वं गम- यामीत्यर्थः । बाहुच्युता दातृबाहुभिः प्रच्युता ब्राह्मणेभ्यो दत्ता पृथिवी उपरि उपरिष्टादेशस्थितां द्याम् दिवं नाकपृष्ठाख्यं स्थानं यथा पालयति । यद्वा उपरि आगामिनि काले भूदानमाप्यां दिवं यथा दत्ता पृथिवी पालयति तथा वां सैव पृथिवी पालयत्वित्यर्थः ॥ [इति ] तृतीयेनुवाके तृतीयं सूक्तम् ॥ "दक्षिणायां त्वा दिशि" इत्यादितः पञ्चानाम् आज्यहोमे अभिमन्त्र- णे च विनियोग उक्तः ॥ तत्र प्रथमा। दक्षिणायां त्वा दिशि पुरा संवृतः स्वधायामा दधामि बाहुच्युता पृथि- वी द्यामिवोपरि। 13' पूर्वक° for °पूर्वकं.