पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१५०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५४ अथर्वसंहिताभाष्ये दिशः सकाशात् मा मां पातु प्रत्यग्दिगवस्थितरक्षःपिशाचादेमा रक्षषि- त्यर्थः : ॥ अन्यद् उक्तार्थम् ॥ अष्टमी ॥ सोमो मा विश्वैर्देवैरुदीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्प ॥ २ ॥ सोमः । मा। विश्वैः । देवैः । उर्दीच्याः । दिशः । पातु । बाहुऽच्युता । पृथिवी । द्यामऽईव । उपरि। लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ॥२८॥ विश्वः सर्वैः [देवैः] सह सोमः [एतन्नामको देवः] मा माम उ- दीच्या दिशः पातु उत्तरदिगवस्थिताद् राक्षसादेः 1श्मशानवासिनः सका- शाद् रक्षतु ॥ नवमी ॥ धर्ता ह त्वा धरुणो धारयाता ऊर्ध्वं भानुं सविता द्यामिवोपरि । लोककृतः पथिकृतो यजामहे ये दे॒वानां हुतभागा इह स्थ ॥ २९ ॥ धर्ता। ह । त्वा। धरुणः । धारयाते । ऊर्ध्वम् । भानुम् । सविता । द्याम्ऽई- व। उपरि । लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इ- ह। स्थ॥ २९॥ धरुणः सर्वस्य जगतो धारयिता धर्ता एतत्संज्ञक ऊर्ध्वदिगभिमानी देवः हे प्रेत त्वा त्वाम् ऊर्ध्वम् अर्ध्व दिगवस्थितं लोकान्तरं गन्तुम् उद्यतम् ऊर्ध्वमुखं का धारयातै धारयतु । "लेटोडाटौ” इति आडागमः । “वैतोन्यत्र" इति ऐकारः । तत्र दृष्टान्तः । स- 1 S kas liere a spare for alont live letters, 28 Ttº. 38' inserts syft हे ऊर्ध्वायां दिशि before धरुणः.