पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू°३.] ५४३ अष्टादशं काण्डम् । १५३ हे देवाः [ये] यूयं देवानाम इन्द्रादीनां मध्ये हुतभागाः हुतः स्वाहा- कारवषट्काराभ्याम् अग्नौ प्रक्षिप्तो1 हविर्भागः अंशो येषां ते हुतभागा इह अस्मिन् पितृमेधकर्मणि स्थ भवथ । तान् देवान् लोककृत इति पूर्वेण संबन्धः ॥ षष्ठी ॥ धाता मा निर्ऋत्या दक्षिणाया दिशः पातु बाहुच्युतां पृथिवी द्यामि- वोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २६ ॥ धाता । मा। निःऽऋत्याः । दक्षिणायाः । दिशः । पातु । बाहुऽच्युता । पृथिवी । धाम्ऽइव । उपरि। लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥२६॥ धाता सर्वस्य जगतो विधाता धारयिता वा एतत्संज्ञो देवः निर्ऋ- त्याः । निर्ऋतिः आर्तिकरी पापदेवता । तद्युक्ताया दक्षिणाया दिशो मा मां पातु दक्षिणदिगवस्थिताद् रक्षःपिशाचादेर्मां संस्कर्तारं रक्षतु ॥ बाहुच्युतेत्यादेः पूर्ववद् योजना ॥ सप्तमी ॥ अदितिर्मादित्यैः प्रतीच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये दे॒वाना हुतभागा इह स्थ ॥ २७ ॥ अदितिः । मा। आदित्यैः । प्रतीच्याः । दिशः । पातु । बाहुऽच्युता । पृ. थिवी । द्याम्ऽइव । उपरि। लोकऽकृतः । पथिऽकृतः । यजामहे । ये । देवानाम् । हुतऽभागाः । इह । स्थ ॥२७॥ अदितिः अदीना देवमाता । सा आदित्यैः स्वपुत्रैः सह प्रतीच्या 18 प्रक्षिप्त.