पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५२ अथर्वसंहिताभाष्ये श्वम् सर्वं भद्रम् कल्याणं भवति । वयमपि सुवीराः शोभनपुत्रादियुक्ताः सन्तो विदथे यज्ञे बृहत् महत् स्तोत्रं वदेम ब्रूयाम ॥ 'इन्द्रो मा मरुत्वान्" इत्यादिभिः एकादशभिर्ऋग्भिः श्मशानचय- नकर्मणि आज्यं जुहुयात् ॥ तथा “इन्द्रो. मा मरुवान्" इत्यादिपञ्चभिर्ऋग्भिः प्रेतशरीरे अग्नि- दानानन्तरम् आज्येन सारस्वतहोमान् कुर्यात् ॥ पञ्चमी॥ इन्द्रो मा मरुत्वान् प्राच्या दिशः पातु बाहुच्युता पृथिवी द्यामिवोपरि। लोककृतः पथिकृतो यजामहे ये देवानां हुतभागा इह स्थ ॥ २५ ॥ इन्द्रः । मा । मरुत्वान् । प्राच्याः । दिशः । पातु । बाहुऽच्युता । पृथिवी। द्यामऽईव । उपरि। लोकऽकृतः । पथिऽकृतः । यजामहे । ये। देवानाम् । हुतऽभागाः । इह । स्थ ॥२५॥ मरुत्वान् मरुद्भिः एकोनपञ्चाशत्संख्याकैर्देवैः ‘सहितः इन्द्रो मा मां संस्कर्तारं प्राच्या दिशः प्राचीदिक्संबन्धिभयहेतोः पातु रक्षतु । तत्र दृ- ष्टान्तः । बाहुच्युता1 बाहुभ्यो दातृसंबन्धिभ्यश्च्युता विनिर्गता । यहद्वा बा- हुषु प्रतिग्रहीतृसंबन्धिषु च्युता प्राप्ता । उदकपूर्वं दत्तत्यर्थः । तादृशी दातृसात्कृता पृथिवी द्यामिव यथा द्याम् दिवं स्वर्गं भूदानप्राप्यमं उ. परि आगामिनि काले दातृप्रतिग्रहीतृभ्याम् उपभोग्यं लोकं पाति त- द्वत् । मां पात्विति संबन्धः । भूमिं यः प्रतिगृह्णाति यश्च भूमिं प्रयच्छति । उभौ तौ पुण्यकर्माणौ नियतौ स्वर्गगामिनौ। इति ॥ अपि च लोककृतः लोकस्य पुण्यफलभूतस्य स्वर्गादेः कर्तृन् प- थिकृतः तत्प्राप्त्युपायभूतस्य मार्गस्य कर्तृन् यजामहे हविषा पूजयामः । १C स्थ। 18' बाहुच्युताः