पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५१ [अ°३ सू°३.] ५४३ • अष्टादशं काण्डम् । स्वामी पश्यति तत् । अयं देवसंघे 1यष्टव्यान् जानातीत्यर्थः ॥ यद्वा दा- हकोग्निः संबोध्यः । हे अग्ने त्वया दह्यमानोऽयं यजमानस्वत्प्रसादाद् उ- ग्रः उद्गूर्णबलः क्षुमति शब्दवति पशुसंघे पश्वः पशूनां यूथा यूथानीव देवानां जनिम आख्यत् अभिपश्यतीति । देवलोकं गतस्य तस्य देवा अ- न्तिके प्रादुर्भवतीत्यर्थः ॥ मर्तासश्चित् मर्त्या अपि मनुष्यजातीया अपि त्वत्प्रसादाद् उर्वशीः 2उर्वश्यांद्या अप्सरसः अकृप्रन् अकल्पयन् । उपभोक्तुं समर्था 3भवन्तीत्यर्थः। कृपू सामर्थ्ये इत्यस्मात् लुङि च्लेः अङ् आ- देशः । “बहुलं छन्दसि" इति रुडागमः ।ततश्च त्वत्प्रसादाद् देवत्वं प्राप्तः अर्थः स्वामी भूत्वा उपरस्य उप्तस्य गर्भाशये निषिक्तस्य आयोः मनुष्यस्य गर्भावस्थस्य वृधे चित् वर्धनाय च । भवतीति शेषः । पितृप्रसादात् पुत्रपौत्राद्यभिवृद्धिरिति भावः ॥ चतुर्थी ॥ अकर्म ते स्वपसो अभूम ऋतमवस्रन्नुषसो विभातीः । विश्वं तद् भद्रं. यदवन्ति देवा बृहद् वदेम विदथे सुवीराः ॥ २४ ॥ अकर्म । ते । सुऽअप॑सः । अभूम । ऋतम् । अवस्नन् । उपसः । विडभातीः । विश्वम् । तत् । भद्रम् । यत् । अवन्ति । देवाः । बृहत् । वदेम । विदथे । सुऽवीराः ॥२४॥ हे अवस्वन् अवनवन् पालक अग्ने ते तुभ्यम् अकर्म परिचरणम् अकार्ष्म.।"मन्वे घस” इत्यादिना ब्लेर्लुक् । अतस्व- त्प्रसादात् स्वपसः शोभनकर्माणः अभूम अस्माभिः कृतानि यागहोमदा- नादीनि कर्माणि शोभनानि फलायुक्तानि येषां तथोक्ता अभवाम । अ- स्माकर्माणि फलयुक्तानि 4भवन्वित्यर्थः ॥ तथा विभाती: विभात्यः व्युच्छ- नय उषसश्च ऋतम् । सत्यनामैतत् । सत्यं यागदानादिकर्मफलम् । कु- र्वन्तु इति शेषः ॥ यत् शास्त्रविहितं कर्म देवा अवन्ति रक्षनि तद् वि- BÅR AV De aha. Wc with C. 28 उर्वश्याचा for उर्वश्याद्या. 33 भवती. 48 अवनस्वन्. अकार्म । . २CP अवरन् ।। 18 य इष्टव्यान. S' has here a lacuna for some fifteen letters.