पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१५० अथर्वसंहिताभाष्ये इच्छन्तः अयो न । नेति उपमार्थे । यथा अयस्कारा अयो धमन्ति धमनेन परिशुद्धं कुर्वन्ति एवं स्वकीयं जनिम जन्म धमन्तस्तपसा शोध- यन्तो देवाः देवत्वं प्राप्ताः अग्निम् गार्हपत्यादिकं शुचन्तः दीपयन्तः सा- मिधेनीभिः प्रज्वालयन्तः इन्द्रं ववृधन्तः स्तुतिभिर्वर्धयन्तः उर्वीम् महतीं गव्याम् गवां समूहम् । "खलगोरथात्" इति समूहार्थे यप्रत्य- यः।नः अस्माकं परिषदम् परितः सीदन्तीम् अक्रन् अका-

र्षुः । डुकृञ् करणे । “मन्त्रे घस" इत्यादिना च्लेर्लुक् ॥

तृतीया ॥ आ यूंथेव क्षुमति पश्वो अख्यद् देवानां जनिमान्त्युग्रः । मर्तासश्चिदुर्वशीरकृप्र्न वृधे चिदर्य उपरस्यायोः ॥ २३ ॥ आ। यूथाऽइव । क्षुऽमतिं । पश्वः । अख्यत् । देवानाम् । जनिम । अन्ति। उग्रः। मर्तासः । चित् । उर्वशीः । अकृप्रन् । वृधे । चित् । अर्थः । उपरस्य । आयोः ॥ २३॥ उग्रः उद्गूर्णबलोयमग्निः देवानाम् यष्टव्यानाम् इन्द्रादीनां जनिम जन्म प्रादुर्भावम् अन्ति अन्तिके समीपे । "कादिलोपो बहुलम् इति वक्तव्यम्" इति अन्तिकशब्दस्य कादिलोपः । आ अख्यत् अभि- पश्यति । आभिमुख्येन ज्ञातुं शक्नोतीत्यर्थः । यूथेव क्षुमति पश्व इति तत्र दृष्टान्तः । यूथा इव । ४ सप्तम्याः पूर्वसवर्णदीर्घः । यूथे समूहे क्षुमति शब्दवति गवां संघे पश्वः पशून् आत्मीयान् गवादीन्1 यथा R A B C R यूथेव क्षुमति. kv युथेव क्षुमति. D¢ युथैव क्षुमति corrected to युथेव क्षु- मति which we adopt. P क्षुम् । अपि ।. P क्षुम् । अति ।. CP क्षुम् । अति ।. There can be no cloubt that the older Athared-reading was यूथेव क्षुमति i. e. युथाऽईव । क्षुम् । अति ।, and that it was afterwards corrected to quat syafat in conformity with the Rigeela (IV. 2. 18). २ B°मान्त्युग्र. XCV मान्त्युनः. A R °मान्युन. P उग्रा ।. CP उग्रः । Pउग्रः।. De correets °मान्त्युम to °मान्त्युग्रः. The MSS. oscillate between the उम्र of the Rivreda and 34: peculiar to the Atharru-vedu. I 18 गवादीयान्, अक्षत्।.