पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

. [अ०३. सू°३.] ५४३ अष्टादशं काण्डम् । १४९ अध अथ अनन्तरम् । यद्वा अप्यर्थः अधेति निपातः । अपि च यथा येन प्रकारेण नः अस्माकं पितरः पितृपितामहाः । यद्वा अस्माकं पितृभूता अङ्गिरसः परासः । परशब्दः उत्कृष्टवाची । "आज्ज- सेरसुक्" । परा उत्कृष्ठाः प्रत्नासो पुराणाः हे अग्ने त्वत्प्रसा- दाद् ऋतम् यज्ञम् आशशानाः व्याप्नुवन्तः । अशू व्याप्तौ इत्य- स्मात् कानचि रूपम् । एवंभूतास्ते शुचि दीप्तं स्थानं नाकपृ- ष्ठाख्यम् अयन् अगच्छन् । इच्छब्दः अवधारणे । इण् गतौ । अस्मात् लङि पूर्वम् “इणो यण्” इति यणि कृते तस्य असिद्धवद्भा- वेन प्राप्तस्य आटश्छान्दसावाद् निवृतौ अडागम एव भवति । दी- ध्यतः दीप्यमानाः । * दीधीङ् दीप्तिदेवनयोः इत्यस्मात् लट् । व्य- त्ययेन शत्रादेशः । उक्थशासः । उक्थानि शस्त्राणि । तेषां शंसि- तारः एवंगुणविशिष्टास्ते पितरः क्षमा रात्रिः तत्संबन्धि तमः क्षाम शार्वरं तमो भिन्दन्तः स्वतेजसा निवर्तयन्तः 2अरुणीः अरुणवर्णा उषसः उषः- कालान् अप व्रन् अपावृण्वन् 3प्रकाशयन् ॥ यद्वा पणिनामानोऽसुरा अङ्गिरसां यज्ञसाधनभूता गा अपहृत्य भूम्यां बिलं प्रावेशयन् 4अङ्गिरस- स्त[जानन्तः इन्द्रसहाया बिलं विवृत्य ता गा अलभन्तेत्याख्यायिका । तद् एतद् उच्यते । क्षाम क्षमां भूमि भिन्दन्तः विदारयन्तः अरुणीः अरुणवर्णा गा अप व्रन् अपावृण्वन् बिलद्वारापवरणेन अलभन्तेत्यर्थः ॥ द्वितीया ॥ सुकर्माणः सुरुचो देवयन्तो अयो न देवा जनिमा धमतः । शुचन्तो अग्निं वावृधन्त इन्द्रमुर्वीं गव्यां परिषदं नो अक्रन् ॥ २२ ॥ सुऽकर्माणः । सुऽरुचः । देवऽयन्तः । अयः। न। देवाः । जनिम । धमन्तः । शुचन्तः । अग्निम् । ववृधन्तः । इन्द्रम् । उर्वीम् । गव्याम् । परिऽसदम् । नः। अक्रन्॥ २२ ॥ सुकर्माणः शोभनकर्माणः सुरुचः सुदीप्तयो देवयन्तः देवान् आत्मन 38 प्रकाशयन्. 18 अंगिर- 1 So S. No correlative follows. 25 अरुणा TYPTE and then n lacıma for some eleven letters.