पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ अथर्वसंहिताभाष्ये दक्षिणाऽवन्तः । सुऽकृतः । ये । ऊ इति । स्थ । आऽसद्य । अस्मिन् । ब- हिर्षि । मादयध्वम् ॥ २० ॥ ११४) ये पितरो यूयम् अत्रयः अत्रिगोत्रोत्पन्नाः । ये वा अङ्गिरसः अङ्गि- रोगोत्रजाः । यद्वा अत्रिमहर्षिरूपेण अङ्गिरोरूपेणावस्थिताः । नवग्वाः अभिनवगमनाः । अथ वा अङ्गिरसो हि केचन 1सत्त्रयागं कुर्वाणा न- वभिर्मासैः [स्वर्ग] गतास्ते नवग्वा उच्यन्ते । अपरे दशभिर्मासैर्गतास्ते दशग्वाः । तथा चाम्नायते । "नवग्वासः सुतसोमास इन्द्रं दशंग्वा- सो अभ्यर्चन्त्यर्कैः” इति [ऋ०५.२९.१२] । इष्टावन्तः इष्टाः दर्श- पूर्णमासादियागास्तद्वन्तः इष्टावन्तः । रातिषाचः रातिर्दानम् तत् सचन्ते समवयन्तीति दक्षिणादानयुक्तक्रिया रातिषाच इत्युच्यन्ते । ता दधानाः धारयन्तः । ये च अन्ये हे पितरो यूयं दक्षिणावन्तः दक्षिणादानयुक्ताः सुकृतः पुण्यकृतः स्य भवथ । उशब्दः अप्यर्थे । अस्मिन् बर्हिषि यज्ञे आस्तीर्णे दर्भे वा आसद्य उपविश्य ते सर्वे यूयं मादयध्वम् अस्मदी- येन हविषा तृप्ता भवत ॥ [इति ] अष्टादशकाण्डे तृतीयेनुवाके द्वितीयं सूक्तम् ॥ "अधा यथा नः" इति आदितश्चतसृणाम् ऋचां प्रेतोपस्थाने वि- नियोग उक्तः ॥ तत्र प्रथमा ॥ अधा या नः पितरः परासः प्रत्नासो अग्न ऋतमाशशानाः । शुचीदयन् दीध्यत उक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन ॥२१॥ अध । यथा । नः । पितरः । परासः । प्रत्नासः । अग्ने । ऋतम् । आऽश शानाः। शुचि । इत् । अयन् । दीध्यतः । उक्थऽशसः । क्षाम । भिन्दन्तः । अरुणीः । अप । व्रन् ॥२१॥ २Pक्षामा। १P शासः।। 18 सत्रयोगं.