पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू°३.] ५४३ अष्टादशं काण्डम् । १४७ नवमी॥

यद् वो मुद्रं पितरः सोम्यं च तेनो सचध्वं स्वय॑शसो हि भूत । ते अर्वाणः कवय आ शृणोत सुविदत्रा विदथे हूयमानाः ॥ १९ ॥ यत् । वः । मुद्रम् । पितरः । सोम्यम्। च। तेनो इति । सचध्वम । स्वऽय- शसः । हि । भूत। ते। अर्वाणः । कवयः। आ। शृणोत। सुऽविदत्राः । विदथे । हूयमानाः॥१९॥ हे पितरः वः युष्माकं संबन्धि मुद्रम् मोदकं हर्षजनकम् । मुद हर्षे इत्यस्मात् स्फायितञ्चीत्यादिना [उ°२. १३] रक् । यद्वा मुदम् हर्ष राति1 ददातीति मुद्रम् ।"आतोनुपसर्गे कः" इति कप्रत्य- यः। प्रीतिकरं यद् धनम् सोम्यम् सोमार्हं च विद्यते तेनो2 [तेनै- व धनेन सह यूयं] सचध्वम् अस्माभिः संगता भवत । षच सम- वाये । तादृग् धनम् अस्मभ्यं प्रयच्छतेत्यर्थः ॥ तत्र हेतुरुच्यते । हि यस्माद् यूयं स्वयशसः स्वायत्तयशस्का [भूत] भवथ । तस्माद् इ- ष्टफलदानं भवतां युक्तम् इत्यर्थः ॥ ते यूयम् अर्वाणो गन्तारः कवयः क्रान्तदर्शनाः सुविदत्राः शोभनज्ञानाः शोभनधना वा विदथे यज्ञे हूय- मानाः अस्माभिराहूयमाना आ शृणोत अस्मदाह्रानं शृणुत । श्रु श्रवणे । लोटि तस्य तबादेशः ॥ दशमी ॥ ये अत्रयो अङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः । दक्षिणावन्तः सुकृतो य उ स्वासद्यास्मिन बर्हिर्षि मादयध्वम् ॥२०॥(११) ये। अत्रयः। अङ्गिरसः। नवऽग्वाः । इष्टऽवन्तः। रातिऽसाचः। दधानाः। CÂRPDC 74. We with BV. ?BC RV De graçar. Crasfer- TT: I. There is no manuscript or Vaidika authority for the necessary correction to aferant. See Rw. ३ Cr पितरः।. ~ Cr भूत ।. PF भूतम् । ५ R BV अत्रयोगि. Dcertet sifato changed to è tutto. We with A CĂ. 18 arfa. 2$ mica and then a lacuna for some ten letters in place of a sit [तेनैव धनेन सह यूयं].