पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४६ अथर्वसंहिताभाष्ये ऋतुं रिहन्ति । यूपवान् यागः क्रतुः । अत्र तत्साधनभूतः सोमो लक्ष्य- ते । ऋतुम् सोमं लिहन्ति क्रयाभिषवादिसंस्कारपूर्वकं सोमम् अग्नौ हु- त्वा हुतशेषं लिहन्ति । आस्वादयन्तीत्यर्थः । मधुना माधुर्योपेतेन क्षी- रादिना श्रयणद्रव्येण तं सोमम् अभ्यञ्जते अभितः अक्तं संयुक्तं संस्कृतं कुर्वन्तीत्यर्थः ॥ दिवि स्थितश्चन्द्र एव लतारूपसोमात्मना पृथिव्याम् अव- स्थित इति 1प्रतिपादयति सिन्धोरुच्छ्वास इति । सिन्धोः स्पन्दनशीलस्य समुद्रस्य [उच्छ्वासे] । उच्छ्वास उद्गमः अभिवृद्धिः । तस्मिन् समये प- तयन्तम् गच्छन्तम् । उद्यन्तम् इत्यर्थः । xपत गतौ । चुरादिरद- न्तः । अतो लोपस्य स्थानिवत्त्वाद् उपधावृद्ध्यभावः । उक्षणम् सेक्तारम् अमृतमयैः किरणैरभिषिञ्चन्तम् । यद्वा सिन्धोः स्पन्दनशील- स्य वसतीवरीजलस्य उच्छ्वासे उद्गमे सति अभिषवकाले पतयन्तम् गच्छ- न्तम् । अभिषवसंस्कारेण द्रवीभवन्तम् इति यावत् । उक्षणम् सेक्तारं सर्वजगदुत्पत्तेः आहुतिद्वारा बीजभूतम् इत्यर्थः । स्मर्यते हि । अग्नौ 2प्रास्तांहुतिः सम्यग् आदित्यम् उपतिष्ठते । आदित्याज्जायते वृष्टिर्वृष्टेरन्नं ततः प्रजाः । इति [म° ३.७६] । तथा पशुम् । पश्यति सर्व जगत् स्वकिरणैः प्र-. काशयतीति पशुश्चन्द्रमाः । पशुः पश्यतेरिति यास्कः [नि ३.१६.] । एवंगुणविशिष्टं सोमं रसात्मना अवस्थितं हिरण्यपावाः हिरण्येन पावयन्तीति हिरण्यपावाः अभिषोतार ऋत्विजः । अभिषवपा- वनादिषु तेषां हिरण्यपाणित्वं भगवता आपस्तम्बेनोक्तम् । “हिरण्य- पाणिरभिषुणोति गृह्णाति जुहोतीत्यत्यन्तप्रदेशः” इति [आपः १२.७. १२] । आसु स्थालीषु । सोमयागे हि प्रधानभूतानाम् आग्रयणा- दीनां ग्रहाणां ग्रहणाय चतस्रः स्थाल्यो 3विहिताः । तासु गृर्भ्णते गृ- ह्णत्ते । उपलक्षणम् एतत् । स्थाल्युपलक्षितग्रहचमसपात्रेषु सोमरसग्रहणेन संस्कुर्वन्तीत्यर्थः ॥ एवं पितृदेवताभूतसोमाञ्जनलिङ्गात् पिण्डाभिधारणे विनियोग उपपन्नः ॥ 18 प्रतिपादयितु. 28 प्रस्थाहुतिः and onits °ग् आदित्य'. 3 S has ftat: for विहिताः and leaves a blank space for four letters after स्थाल्यो.