पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४५

[अ०३. सू०३.] ५४३ अष्टादशं काण्डम् । सिन्धोः । उतऽश्वासे । पतयन्तम् । उक्षणम् । हिरण्यऽपावाः । पशुम् । आसु । गृह्णते ॥ १ ॥ पितृवं प्राप्ताः कर्मिणो जना धूमादिमार्गेण चन्द्रलोकं प्राप्य तत्र या- गहोमादिसुकृतजनितं फलं भुञ्जत इति स सोमः अनया स्तूयते । सो- मयागं 1प्रवर्तयन्तः प्रथमम् ऋत्विजः अञ्जते यजमानम् अञ्जनेन संस्कुर्वन्ति । तथा च ऐतरेयकम् । “आञ्जन्त्येनम् । तेजो वा एतद् अक्ष्योर्यद् आञ्जनम् । सतेजसमेवैनं तत् कृत्वा दीक्षयन्ति" इति [ऐ ब्रा॰ १.३] ।अञ्जू व्यक्तिम्लक्षणगतिषु । “श्र्नसोरल्लोपः” इति अकारलोपः ।त- स्याञ्जनस्य लौकिकाद् वैशिष्ट्यं प्रतिपाद्यते व्यञ्जत इति । विविधम् अ- ञ्जते । लौकिकाद् अञ्जनाद् अन्येन प्रकारेण यजमानस्याक्षणोरञ्जनं कु- र्वनतीत्यर्थः । तत्प्रकारश्च तैतिरीये समाम्नायते । “दक्षिणं पूर्वम् आङ्क्ते । सव्यं हि पूर्व मनुष्या आञ्जते" [नै सं० ६.१.१.६] इत्यादिना । तथा समञ्जते सम्यग् अक्तं कुर्वन्ति । उक्तस्याञ्जनस्य सम्यक्त्वविशेषणप्रतिपाद- नाय पुनरनुवादः । तथा ऋतुं रिहन्ति । क्रतुः सोमयागसंकल्पः । तं लिहन्ति आखादयन्ति । लिह आस्वादने । कपिलकादित्वात् लत्व- विकल्पः ।सोमेन यक्ष्य इत्येवमात्मकं 2वचो यजमानम् उच्चारय- न्तीत्यर्थः । मधुना माधुर्योपेतेन नवनीतेन अभ्यञ्जते अभ्यक्त3शरीरं कुर्व- न्तिि । तथा च ऐतरेयकम् । “नवनीतेनाभ्यञ्ज4न्ति । स्वेनैवैनं तद् भा- गधेयेन समर्धयन्ति" [ऐ ब्रा० १.३] इति ॥ यद्वा अञ्जनादिसंस्कारैः सोम एव स्तूयते । 5सोमयागे प्रवृत्ती ऋत्विग्यजमानाः सोमम् अञ्जते दीक्षणीयादिषु हूयमानेनाज्येन सोममेव अञ्जन्ति । संस्कुर्वन्तीत्यर्थः ॥ तथा व्यञ्जते दण्डकृष्णाजिनादिदीक्षाव्यञ्जनद्रव्येण यजमानद्वारा तमेव सोमं संस्कुर्वनीत्यर्थः ॥ तथा समञ्जते सोमयागोपयुक्तं यूपं सम्यग् आमूलाग्रम् अञ्जते6 । तेन च समञ्जनेन यूपद्वारा सोम एव संस्कृतो भवतीत्यर्थः ॥ 18 वर्त प्रथममृजः for प्रवर्तयन्तःप्रथमम् ऋत्विजः. 4 S' has a blank space for about nine letters in place of other I Faded ag. iS सोमयागप्रवृत्य. 68 अञ्जति. 28 वाचा. 38' अभ्यक्तंशरीर. १६