पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१४०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४४ अथर्वसंहिताभाष्ये आऽप्यार्यमानाः । प्रऽजया । धनेन । अध । स्याम । सुरभयः । गृ- हेषु ॥ १७ ॥ कसः कीकसः । कीशब्दलोपश्छान्दसः ।कसम् अर्ह- तीति कस्यो दहनदेशः तस्मिन् मृजानाः बान्धवमृतिजनितं दुःखम् उ- पलिपन्तः । परित्यजन्त इत्यर्थः । रिप्रम् । पापनामैतत् । शवसंस्पर्श- जनितं पापम्।रपो रिप्रम् इति पापनामनी भवतः इति हि नि- रुक्तम् [नि०४.२१] । मरणनिमित्तं पापम् अति यन्ति अतीत्य गच्छन्ति । इति प्रथमः पादः परोक्षकृतः । यद्वा पुरुषव्यत्ययः । अती- मः । अतीत्य गच्छाम इत्यर्थः । इण् गतौ । अदादित्वान् शपो लुक् । “इणो यण्” इति यण् आदेशः । यतो वयम् उक्तरी- त्या दुःखम् अतिक्रान्तास्ततो हेतोः नवीयः अतिशयेन नवम् उत्कृष्टम् आयुः जीवितं प्रतरम् प्रकृष्टतरं दधानाः । दीर्घकालजीवनं धारयन्त इ- त्यर्थः । एवम् अनेन द्वितीयपादेन चिरकालजीवनं प्रार्थितम् ॥ जीवत एव पुरुषस्य प्रजापश्चाद्यपेक्षेति तृतीयेन पादेन प्रतिपाद्यते । प्रजया पु- त्रपौत्रादिरूपया धनेन कनकरजतादिलक्षणं गवाश्वादिकं च धनम् तेन आप्यायमानाः वर्धमाना भवेम ॥ अध अथ अनन्तरं गृहेषु सुरभयः शोभनगन्धोपेताः श्लाघ्यगुणयुक्ताः स्याम भवेम ॥ पिण्डपितृयज्ञे “अञ्जते व्यञ्जते' इति ऋचा पिण्डेषु घृतेन अभिधा- रणं कुर्यात् । सैषा सूक्ते अष्टमी॥ अञ्जते व्यञ्जते समञ्जते क्रतुं रिहन्ति मधुनाभ्यञ्जते । सिन्धोरुच्छ्रासे पतयन्तमुक्षणं हिरण्यपावाः पशुमासु गृह्णते ॥ १६ ॥ अञ्जते । वि। अञ्जते । सम् । अञ्जते । क्रतुम् । रिहनि । मधुना। अभि। अञ्जते । १PP अधास्याम | lior अध ।स्याम् ।। I SMS. Should not we rather read fyra? 23 इता for इत्यर्थः.