पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४२ अथर्वसंहिताभाष्ये अश्वा यस्य स तथोक्तः । सोभरी प्रसिद्धः। अर्चनानाः अर्चनम् अर्चनी- यम् अनः शकटं यस्य स तथोक्तः । संज्ञाशब्दोयम् । स च अत्रीणां प्र- वरमध्ये पठ्यते । 'आत्रेयार्चनानसश्यावाश्वेति । श्यावाश्ववद् अर्चनानस- वद् [अत्रिवत्]" इति । विश्वामित्रः । विश्वं सर्व जगत् मित्रं यस्य स तथा।"मित्रे चर्षौ" इति विश्वशब्दस्य दीर्घः । अयम् इति इदंशब्देन पुरोवर्तिवस्तुवाचिना सर्वजनसंनिहितत्वेन सर्वमित्रत्वम् उ- पपाद्यते । जमदग्निः । जमतिर्ज्वलतिकर्मा ।जमन्तो ज्व- लन्तः अग्नयो यस्य स तथोक्तः । अत्रिः । आध्यात्मिकाधिदैविकाधिभौ- तिकभेदभिन्नास्त्रिविधा दुःखानुभवा यस्य न विद्यन्ते स तथा । अत एव यास्को निरवोचत । तस्माद् अत्रिर्न त्रय इति [नि ३.१७] । क- श्यपः । आद्यन्तवर्णविपर्ययः । सर्व जगत सर्वदा सौक्ष्म्येण पश्यतीति कश्यपः । श्रूयते हि । "कश्यपः 1पश्यको भवति यत् सर्व परिपश्य- तीति सौक्ष्म्यात्" इति [तै आ०१...] । वामदेवः । वामो व- ननीयो देवो 2द्योतकोस्ति तत्वविषये बोधो यस्य स तथा । स खलु गर्भावस्थ एव सन उत्पन्नतत्त्वज्ञानः स्वस्य सार्वात्म्यम् अनुसंदधौ । श्रूयते हि । 'अहं मनुरभवं सूर्यश्च" इति । [ऋ०४.२६.१] ॥ षष्ठी ॥ । मृः विश्वामित्र जमदग्ने वसिष्ठ भरद्वाज गोतम वामदेव । शर्दिर्नो अत्रिरग्रभीन्नमोभिः सुसंशासः पितरो मृडता नः ॥ १६ ॥ विश्वामित्र । जमतऽअग्ने । वसिष्ठ । भरतऽवाज । गोतम । वामऽदेव । शर्दिः । नः । अत्रिः । अग्रभीत् । नमःऽभिः । सुऽसशासः । पितरः। मृ- डत । नः ॥ १६॥ १ BCV शर्दिों. D शर्दि clhanged to शर्दि'. We with A KR. . २ K सुसंशास:. A B R V मुमैशामः पिनरो. C मुशंशासः पितरो. D सुसंशासः पितरौ corrected to सु- सँशासः पितरी. Cr सुऽसंशासः । पितरः ।. We with A BR V CP. ३ Cr बामऽदेव । ४ Cशर्दिः। 28' द्योतकनास्त for द्योतकोऽस्ति. IS पश्यक: