पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

1 [अ०३. सू०३.] ५४३ अष्टादशं काण्डम्। १४१ पुनर्यागार्थम् अस्माभिराहूताः सन्तः आ यात च आगच्छत च ॥ इदानीं परागमने कारणम् आह । वः युष्मभ्यं मधुना मधुरेण आज्येन । “ए- तद्वै मधु दैव्यं यद् आज्यम्” इति हि ऐतरेयकम् [ऐ ब्रा०२.२] । समक्तः सम्यक् संसिक्तः अयं यज्ञः अस्माभिर्दतः ॥ तं स्वीकृत्य अस्म- भ्यम् अस्मदर्थं भद्रम् कल्याणं द्रविणा द्रविणं धनम् इह अस्मिन् गृहे दधात धारयत ॥ तथा सर्ववीरम् वीर्याजायन्त इति वीराः पुत्रपौत्रादि- रूपाः प्रजास्तैः सर्वैरुपेतं रयिम् प्रजापश्वादिरूपं धनं नः अस्माकं द- धात धारयत । “तप्तनप्तनथनाश्च” इति तस्य तवादेशः । पि- त्त्वेन ङीत्त्वाभावाद् आल्लोपाभावः ॥ पञ्चमी ॥ कण्वः कक्षीवान् पुरुमीढो अगस्यः श्यावाश्वः सोभर्यर्चनानाः विश्वामित्रोयं जमदग्निरत्रिरवन्तु नः कश्यपो वामदेवः ॥ १५ ॥ कण्वः । कक्षीवान् । पुरुऽमीढः । अगस्त्यः । श्यावऽअश्वः । सोभरी । अ- र्चनानाः। विश्वामित्रः । अयम् । जमत्ऽअग्निः । अत्रिः । अवन्तु । नः । कश्यपः । वामडदेवः ॥१५॥ कण्वादयो द्वादशसंख्याका ऋषयो नः अस्मान अवन्तु रक्षन्तु । क्र- णतिः शब्दार्थः । अशूमुषिलटिकणिस्वटिविशिभ्यः क्वन् [उ १. १४९] इति क्वन् प्रत्ययः । [नित्त्वाद् आद्युदात्तः] कण्वशब्दः । कक्ष्या रज्जुरश्वस्य कक्षं सेवते [नि०२.२] इति यास्कः । तद्वान् कक्षी- वान् । g “आसन्दीवद् अष्ठीवच्चक्रीवत् कक्षीवत्" इति मनुपि नि- पात्यते । पुरुमीढः । मिह सेचने इत्यस्मात् कर्मणि नि- ष्ठा । पुरूणि मीढानि सिक्तानि अपत्यानि यस्य स तथोक्तः । यद्वा मीढम् इति धननाम । पुरूणि मीढानि धनानि यस्य स तथो- क्तः । बहुधन इत्यर्थः । अगस्यः प्रसिद्धः । श्यावाश्वः श्यावाः कृष्णवर्णा 18 has a lacuna for alvout ten letters, after which it reads : q:. 28 ou. °णि निष्ठा । पुरूणि मीढानि. पात्यते ।