पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१४०


अथर्वसंहिताभाष्ये राज्यप्राप्तिश्च आम्नायते । “यमो वा अकामयत पितॄणां राज्यम् अभि- 1जयेयम् इति । स एतं यमायापभरणीभ्यश्चरूं निरवपत्" इति [तै ब्रा ३. १. ५. १४] । इत्थं यः यमो राजा मरणपूर्वकं प्रथमं प्रेयाय अस्मा- ल्लोकात प्रगतो बभूव तं वैवस्वतम् विवस्वान् आदित्यः तस्य पुत्रं ज- नानाम् जनिमतां प्राणिनां संगमनम् संगच्छन्ते अस्मिन्निति संगम- नः। अधिकरणे ल्युट् ।जनिमद्भिः सर्वैः प्राणिभिः सं- प्राप्यम् इत्यर्थः । एवंगुणविशिष्टं यमं राजानम् ईश्वरम् । प्राणिकृतसु- कृतदुष्कृतानुरूपेण शिक्षाकरम् इति यावत् । हविषा आज्यपुरोडाशादिना सपर्यत पूजयत । हे ऋत्विज इति शेषः । gसपर पूजायाम् । कण्ड्वादिभ्यो यक्” इति यक् प्रत्ययः ॥ अथ वा प्रथमः प्रथ- मभावी कल्पादौ वर्तमानो यो जनः प्राणी ममार यश्च जनः प्रथमः कल्पादौ वर्तमानः एतं लोकं यमस्य स्वभूतं प्रेयाय प्रगतवान् । तदाप्र- भृति वर्तमानानां सर्वेषां जनानां संग*। उप संप्राप्यं राजानम् इत्यादि पूर्ववत् ॥ पिण्डपितृयज्ञे "परा यात" इति चई***'त्वा पितृन् विसर्जयेत् । तत्पाठस्तु [चतुर्थी] ॥ परा यात पितर आ च यातायं वो यज्ञो मधुना समक्तः । दत्तो अस्मभ्यं द्रविणेह भद्रं रयिं च नः सर्ववीरं दधात ॥ १४ ॥ परा । यात । पितरः । आ । च । यात । अयम् । वः । यज्ञः । मधुना । समऽअक्तः दत्तो इति । अस्मभ्य॑म् । द्रविणा । इह । भद्रम् । रयिम् । च । नः । स- र्वऽवीरम् । दधात ॥ १४ ॥ हे पितरः पितृदेवताः अस्माभिः कृतेन पितृयज्ञरूपेण कर्मणा संतु- ष्टाः सन्तः परा यात परागच्छत । पराङ्मुखतः स्वस्थानं गच्छतेत्यर्थः ।


$ 18' अभिजयेदिति.