पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०३. सू०३.] ५४३ अष्टादशं काण्डम् । १३९ मित्रावरुणा मित्रश्च वरुणश्च मित्रावरुणौ । "देवताद्वन्द्वे च" इति पूर्वपदस्य आनङ् आदेशः । “सुपां सुलुक्” इति पूर्वसवर्णदी- र्थः। अहरभिमानी देवो मित्रः । वरुणो रात्र्यभिमानी । ता- वुभौ मां पर्यधाताम् परितो धारयताम् । यद्वा वस्त्रादिना परिहितं कु- रुताम् ॥ तथा आदित्याः अदितेः पुत्रा अन्ये देवाः स्वरवः ।स्वृ शब्दोपतापयोः । शृस्वृस्त्रिहीत्यादिना [उ.१.१०] उप्रत्ययः ।स्व- रवः शोभनशब्दं कुर्वाणाः यद्वा अस्मच्छत्रुविषयम् उपतापं कुर्वन्तो मा मां वर्धयन्तु ॥ अपि च इन्द्रो देवः मे मम हस्तयोर्वर्चः बलं नि अ- नक्तु नियोजयतु । बाहुजातात्वाद् इन्द्रस्य बाहुबलं 1तत्प्रसादाल्लभ्यम् इ. त्यभिप्रायः ॥ सविता सर्वस्य प्रसविता देवो मा मां जरदष्टिम् जीर्यद- वस्थभोजनं दीर्घायुषं कृणोतु करोतु ॥ तृतीया ॥ यो ममार प्रथमो मर्त्यानां यः प्रेयाय प्रथमो लोकमेतम् । वैवस्वतं संगमनं जनानां यमं राजानं हविषा| सपर्यंत ॥ १३ ॥ यः । ममारे । प्रथमः । मर्त्यानाम् । यः । प्रऽईयाय । प्रथमः । लोकम् । एतम्। वैवस्वतम् । समऽगमनम् । जनानाम् । यमम् । राजानम् । हविषा । स- पर्यत ॥ १३॥ मृङ् " 66 यो यमो राजा मर्त्यानाम् मरणधर्मणां मनुष्याणां मध्ये स्वयमपि एकः सन् प्रथमः प्रथमभूतो ममार [मरणं प्राप्तवान् । मृञ् प्राण त्यागे । म्रियतेर्लुंलिङोश्च इति नियमात् लिटः परस्मैप- पदम्। एतं लोकं यो यमो राजा प्रथमः प्रथमभूतः प्रेयाय प्र. गतवान् । प्रथमं मरणम् पश्चात् लोकान्तरमाप्तिः इत्युभयं यमोपज्ञम् आसीद् इत्यर्थः । अत एव यमस्य मनुष्यवत् कामयितृत्वादिकं यागाद् १Pईयाय । Cr याय. 18 त्वत्प्रसादा. दम् ।