पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

" १३६ अथर्वसंहिताभाष्ये रयिं मे विश्वे नि यच्छन्तु देवाः स्योना मापः पवनैः पुनन्तु ॥ ११ ॥ वर्चसा । माम् । सम् । अनक्तु । अग्निः । मेधाम् । मे । विष्णुः । नि। अ- नक्तु । आसन्। रयिम् । मे । विश्वे । नि । यच्छन्तु । देवाः । स्पोनाः । मा। आपः । प- वनैः । पुनन्तु ॥ ११ ॥ अग्निः अङ्गनादिगुणयुक्तो देवः मा मां वर्चसा तेजसा समनक्तु सं- योजयतु । अञ्जू व्यक्तिम्लक्षणगतिषु । रुधादित्वा श्र्नम् "श्र्ना- न्नलोपः” इति नलोपः ॥ तथा विष्णुः मे मम आसन् आसनि आस्ये मुखे मेधां नि अनक्तु नितरां संयोजयतु ।“पद्दन्" इ- त्यादिना आस्यशब्दस्य आसन् आदेशः । “सुपां सुलुक्” इति सप्तम्या लुक् ।। तथा विश्वे देवाः स्योनाम्1 सुखकरीं रयिम् धनं मे मह्यं नि यच्छन्तु नियतां कुर्वन्तु । यम उपरमे । “इघुगमियमां छः' इति छत्वम् । यद्वा नियमेन ददतु । दाण् दाने इत्यस्य पाघ्रा' इत्यादिना यच्छादेशः ॥ तथा आपः उदकानि पवनैः शोधनसाधनैः स्वांशैः [मा] मां पुनन्तु पूतं शुद्धं कुर्वन्तु ॥ "मित्रावरुणा परि माम्" इति द्वितीयया ऋचा पिण्डपितृयज्ञे पाणी कर्ता प्रक्षालयेत् । तत्पाठस्तु [द्वितीया]॥ मित्रावरुणा परि मामधातामादित्या मा स्वरवो वर्धयन्तु । वर्चो म इन्द्रो न्यनक्तु हस्तयोर्जरदष्टिं मा सविता कृणोतु ॥ १२ ॥ मित्रावरुणा । परि । माम् । अधाताम् । आदित्याः । मा। स्वरवः । व- र्धयन्तु । वर्चः । मे । इन्द्रः । नि। अनक्तु । हस्तयोः । जरतऽअप्टिम् । मा । सवि- ता। कृणोतु ॥ १२ ॥ २ BC K R मित्रांवरुणा. D मित्रावरुणा corrected to मित्रावरुणा. 66 १Cस्योना। We with AKV De