पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ°३. सू०३.] ५४३ अष्टादशं काण्डम् । १३७ पिण्डपितृयज्ञे “वर्चसा माम्" इति दशम्या उत्तरसूक्तस्य आद्यया च आचामेत् । वर्चसा माम् इत्याचामति" इति हि सूत्रितम् [को॰ ११.२] ॥ दशमी ॥ वर्चसा मां पितरः सोम्यासो अञ्जन्तु देवा मधुना घृतेन । चक्षुषे मा प्रतरं तारयन्तो जरसे मा जरदष्टिं वर्धन्तु ॥ १० ॥ (१३) वर्चसा । माम् । पितरः । सोम्यासः । अञ्जन्तु । देवाः । मधुना । घृतेन । चक्षुषे । मा । प्रडतरम् । तारयन्तः । जरसे । मा । जरतऽअष्टिम् । वर्ध- न्तु ॥ १० ॥ (१३) पितरः पितृदेवताः सोम्यासः सोम्याः सोमार्हा- ।“सोमम् अर्हति यः' इति सोमशब्दाद् अर्हार्थे यप्रत्ययः । “आज्जसेरसुक्" । त थाविधाः पितरो मां यजमानं वर्चसा. तेजसा अञ्जन्तु अक्तं संश्लिष्टं कु- र्वन्तु । तथा देवाः विश्वे देवा मधुना माधुर्योपेतेन घृतेन दीप्तिकरेण आज्येन माम् अञ्जन्तु । अपि च चक्षुषे दर्शनाय मा मां प्रतरम् प्र- कृष्टतरं तारयन्तः प्लावयन्तः । दीर्घकालदर्शनार्थं रोगादिभ्यो मां व्याव- र्तयन्त इत्यर्थः । तथा जरसे जरायै मा मां जरदष्टिम् जरती जीर्णा अ- ष्टिः अशनं यस्य । जृष् वयोहानौ । “जीयतेरतृन" इति भूतेर्थे अतृन प्रत्ययः । “जराया जरस् अन्यतरस्याम्” इति जराशब्दस्य ज- रस् आदेशः । तादर्थ्ये चतुर्थी : जरार्थम् यावता कालेन जरा भवति तावत्कालपर्यन्तं मां जरदष्टिं कृत्वा वर्धन्तु वर्धयन्तु ॥ [इति] अष्टादशकाण्डस्य तृतीयेनुवाके प्रथम सूक्तम् ॥ “वर्चसा माम्" इति आद्याया ऋचः पूर्वया ऋचा सह उक्तो वि- 1 नियोगः । तत्पाठस्तु [प्रथमा] ॥ वर्चसा मां समनक्त्वग्निर्मेधां मे विष्णुर्न्य निक्त्वासन । १R अजंतु. PP अजंतु ।. Cr अजंतु ।