पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

"प्र च्यवस्व १३६ अथर्वसंहिताभाष्ये कः गृहं कृणुष्व कुरु । कृवि हिंसाकरणयोश्च । “धिन्विकृण्व्योर च" इति उप्रत्ययः । तत्र तस्मिन् लोके त्वं पितृभिः बर्हिषद- ग्निष्वात्ताख्याभिः पितृदेवताभिः संविदानः संजानानः ऐक1मत्वं गतः सन् सोमेन सं मदस्व ।मद तृप्तियोगे।सोमपानेन तृप्तो भ- वेत्यर्थः । सोमयागेषु हि नाराशंसाख्यः सोमरसस्य भागः पितॄणाम् अस्ति । तदुपभोगेन आत्मानं हर्षयेति भावः । यद्वा सोमेन राज्ञा पि- तॄणाम् अधिपतिना सह मदस्वेत्यर्थः । तथा स्वधाभिः स्वधाकारसहितैः श्राद्धैः पुत्रादिभिः कृतैः सं मदस्व । संविदान इति । विद ज्ञा- ने । “समो गम्यृच्छि” इत्यादिना आत्मनेपदम् ॥ प्र च्यवस्व " इत्यनया प्रेतस्य गात्राणि इतस्ततश्च व्याकुलीकुर्यात् ॥ तत्पाठस्तु [नवमी] ॥ प्र च्यवस्व तन्वं सं भरव मा ते गात्रा वि हायि मो शरीरम् । मनो निविष्ठमनुसंविशस्व यत्र भूमेर्जुषसे तत्र गच्छ ॥९॥ प्र। च्यवस्व । तन्वमि । सम् । भरस्व । मा । ते । गात्रा । वि । हायि । मो इति । शरीरम्। मनः । निऽविष्टम् । अनुऽसंविंशस्व । यत्र । भूमेः । जुषसे। तत्र। गच्छ ॥९॥ हे प्रेत त्वं प्र च्यवस्व अस्मात् स्थानात् प्रच्युतो भव । तदर्थं तन्वम् शरीरं हस्तपादादिसहितं सं भरस्व संभृतम् एकीभूतं कुरु । ते तव गा- त्रा गात्राणि हस्तपादादीनि मा वि हायि परित्यक्तानि मा भूवन् । तथा शरीरम् अवयविभूतो मध्यदेहश्च मो मैव त्याक्षीः । यत्र यस्मिन् स्थाने त्वदीयं मनो निविष्टम् अवस्थितं मनसो विषयभूतं तत् स्वर्गादि- लक्षणम् अनुसंविशस्व संप्रविष्टो भव । तथा यत्र यस्यां भूमौ भूप्रदेशे जुषसे प्रीयसे । जुषी प्रीतिसेवनयोः । तत्र गच्छ । तं भूप्रदेशं प्राप्नुहीत्यर्थः ॥ १ PF भूमे ।. CP भूमें। 28 पाण्यादि. 18 एकमत्यं.