पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

66 तत्तः [अ०३. सू०३.] ५४३ अष्टादशं काण्डम् । १३५ हे प्रेत .ते तव परलोकगमनाय इदम् एकम् गार्हपत्याख्यं ज्योतिः । तथा परः परस्तात् ते तव । उशब्दः अप्यर्थे । अन्वाहार्यपचनाख्यम- पि एक ज्योतिः । तृतीयेन त्रित्वसंख्यापूरकेण ज्योतिषा आहवनीयाख्ये- न सं विशस्व 1संगतो भव । साकल्येन आत्मानम् आहवनीयं गमये- त्यर्थः । इत्यम् अग्निसंवेशने सति तन्वा संस्कारजनितेन देवशरीरेण चारुः शोभन: एधि भव । ४ अस. भुवीत्यस्माल्लोटि "ध्वसोरेद्धा- वभ्यासलोपश्च" इति अकारस्य एवम् । तस्य 'असिद्धवद् अत्रा भात" इति असिद्धत्वात् "हुझल्भ्यः" इति हेर्धित्वमः । परमे उत्कृष्टे सधस्थे सहस्थाने देवलोके देवानाम् इन्द्रादीनां प्रियंः प्री- तिविषयो भव ।सह तिष्ठन्ति अस्मिन्निति सधस्थः । “घञर्थे कविधानम्" इति अधिकरणे तिष्ठते: कप्रत्ययः । “सध मादस्थयोश्छ- न्दसि" इति सहस्य सधादेशः । यद्वा अग्निसंस्कारजनितदेवश- रीरेण चारुर्भूवा देवलोके देवानां प्रिय एधीत्येकवाक्यता ॥ "उत्तिष्ठ प्रेहि" इत्यष्टम्या "म च्यवस्व" इति नवम्या च दहनप्र- देशं नेतुं प्रेतम् उत्थापयेत् ॥ तत्र अष्टमी॥ उतिष्ठ मेहि प्र द्वौकः कृणुष्व सलिले सधस्थे । तत्र त्वं पितृभिः संविदानः सं सोमेन मदस्व सं स्वधाभिः ॥ ८ ॥ उत् । तिष्ठ।प्र। इहि ।प्र। द्रव । ओकः । कृणुष्व । सलिले । सधऽस्थे । तत्र । त्वम् । पितृऽभिः। समऽविदानः । सम। सोमेन । मदस्व । सम्। स्वधाभिः॥॥ हे प्रेत उत्तिष्ठ अस्मात् स्थानाद् ऊर्व॑ तिष्ठ ।

  • "उदो-

नूर्धकर्मणि" इति पर्युदासात् तिष्ठतेरात्मनेपदाभावः । उत्थाना- नन्तरं प्रेहि प्रगच्छ । ततः प्र द्रव प्रकर्षेण धाव । शीघ्रं गच्छेत्यर्थः । सलिले । अन्तरिक्षनामैतत् । अन्तरिक्ष सधस्थे सहस्थाने अलौकिके ओ- 1S has a blank space for some cight letters before a. 2 S inscrits before अग्नि. 38 वावद्धता for वाक्यता.