पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१३०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

नि- १३४ अथर्वसंहिताभाष्ये क्याम्बूरत्र रोहतु शाण्डदूर्वा व्यल्कशा ॥ ६ ॥ यम् । त्वम् । अग्ने। समऽअदहः । तम् । ऊं इति । निः। वापय। पुनः । क्याम्बूः । अत्र । रोहतु । शाण्डऽदूर्वा । विऽअल्कशा ॥ ६ ॥ हे अग्ने त्वं यं पुरुषं समदहः सम्यग् दग्धवान् असि तमु तं खलु त्वं पुनर्निर्वापय निर्वृतं सुखितं कुरु । दाहजनितीण्य1परिहारेणेत्यर्थः । एतद- र्थमेव हि पूर्वम् अपां पित्तम् असीति अग्नेरप्कार्यवम् उक्तम् । नि- रुपसृष्टाद् “वा गतिगन्धनयोः" इत्यस्मात् णिचि “•आतां पुङ्णौ” इति पुगागमः दाहनिर्वापणस्य परां काष्ठाम आह क्याम्बूरित्युत्तरा- र्धेन । अत्र अस्मिन् दहनप्रदेशे क्याम्बूः ओषधिविशेषः रोहतु प्ररोहतु उत्पद्यताम् । तथा शाण्डदूर्वा जलसमीये उत्पद्यमाना अण्डाकृतिमूलस- हिता दीर्घकाण्डा वा दूर्वा शाण्डदूर्वा सा बृहद्दूर्वेत्युच्यते । सा व्यल्क- शा अल्काः शाखाः । श2ो मत्वर्थीयः । विविधशाखोपे- ता। रोहत्वित्ति संबन्धः ॥ 'इदं त एकम्" इत्यनया सप्तम्या आहिताग्नेः प्रेतस्याग्ने अग्नित्रयं धारयित्वा अनुमन्त्रयते ॥ तत्पाठस्तु [सप्तमी] ॥ इदं त एकं पर ऊ त एकं तृतीयेन ज्योतिषा सं विशस्व । संवेशने तन्वा चारुरेधि प्रियो देवानां परमे सधस्थे ॥ ७ ॥ इदम् । ते। एकम् । परः । ऊं इति । ते । एकम् । तृतीयेन । ज्योतिषा। सम् । विशस्व । समऽवेशने । तन्वा । चारूः । एधि । प्रियः । देवानाम् । परमे । स- धऽस्थे ॥ ७ ॥ BKV ateistt. De ategat. Cr fasaner. We with AR CR संवेशने. C" सम्ऽवेशते ।. PP सम्ऽवेशने ।. We with A KR V Dc. ३Kkvr- न्वा श्वा". D तन्वाश्चारु० changed to तन्वीश्चारु०. We with A BC R. 15' परिहारेत्यर्थः, 28' सो. 64 BC