पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

उप । घाम । उप । वेर्तसम् । अवतऽतरः । नदीनाम् । अग्ने। पित्तम् । अपाम् । असि ॥ ५ ॥ नदीनाम् नदनशीलानाम अपाम् । नदनान्नध इति यास्कः [नि २.२४] । मन्त्रवर्णश्च भवति । “अहावनदता हते । तस्मादा नद्यो ना- म स्प" इति ३.१३.१] । पचादिषु नदट् इति पाठात् "टिड्डा- णञ्" इत्यादिना ङीप्। नदनशीलानाम् अपां संबन्धिनी द्याम् उप । [1अत्र द्योशब्दः अवकावाची] । जलस्योपरि प्ररूढा भूसंस्पर्शर- हिता अवका उच्यन्ते । तत्समीपे । तथा वेतसम् उप । वेतसो नदीती- रगतो वृक्षविशेषः । तस्य समीपे । यद्वा सप्तम्यर्थप्रतिपादकावुपशब्दौ । अवकासु वेतसे चेत्यर्थः । अवतरः अतिशयेन अवन् रक्षणसमर्थः सारभू- तांशो विद्यते । वेतसस्य च अवकानां च अप्सारत्वं तैत्तिरीये समाम्नाय- "अपां वा एतत् पुष्पं यद् वेतसः । अपां शरोऽवका । वेतसशा- खया चावकाभिश्च विकर्षति" इति [तै सं०५. ४.४.२] । हे अग्ने त्वमपि अपां पितम् अप्संबन्धी पित्तधातुरसि । “शुचिरप्पित्तम् और्व- स्तु" इति अभिधानकारः । यतस्त्वम् अपां संबन्ध्यसि अतस्त्वाम् अप्संब- धिनीभिः अवकावेतसशाखानदीफेनबृहदूर्वाद्योषधीभिः शमयामीति शेषः । ओषधयः केशवेन पद्धतिकारेण परिगणिताः । वेतसाश्च 3कर्णौ [च] न- दीफेनं चावका च 4बर्हका च बृहदूर्वा च मण्डूकपर्णी चेति ।अ- वत्तर इति । अव रक्षणे इत्यस्मात् लटः शत्रादेशः । ततः प्रकर्षार्थे तरप् ॥ षष्ठी॥ यं त्वमग्ने समदहस्तमु निर्वापया पुनः । १CP वेतसम्।. २.CP अवऽत्तरः। ३ CP पित्वम् ।. पित्वम् ।. P पित्तम् ।. 1 In 8' the words from arm to rentet: in the introductory purugrapilo of the comment on this verse are found in place of the words [अत्र द्योशब्दः अव- Farf] which we have restored from guese. 38 कर्ना. 4 Kesava गरुहेरुका. 28 om. ओषध.. Kosava Fore.