पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२८

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१३२ अथर्वसंहिताभाष्ये अयं ते गोपतिस्तं जुषस्व स्वर्गं लोकमधि रोहयैनम् ॥ ४॥ प्रऽजानती। अन्ये । जीवऽलोकम।देवानाम। पन्थाम् । अनुऽसंचरन्ती । अयम् । ते । गोऽपतिः । तम् । जुषस्व । स्वऽगम् । लोकम् । अधि। रोहय । एनम् ॥ ४॥ हे अग्न्ये । गोनामैतत् । अहन्तव्ये हे गौ: जीवलोकम् जीवानां लोको जीवलोकः भूलोकः । तं प्रजानती प्रकर्षेण जानाना ।ज्ञा अ- वबोधने इत्यस्मात् लटः शत्रादेशः । “ज्ञाजनोर्जा" इति जादेशः । "श्नाभ्यस्तयोरातः" इति आल्लोपः । 'उगितश्च" इति डीप् । “श- तुरनुमः” इति नद्या उदातत्त्वम् । तथा देवानाम् इन्द्रादीनां पन्थाम् पन्थानं मार्ग यज्ञलक्षणम् अनुसंचरन्ती अनुलक्ष्य गच्छन्ती क्षी- रदध्यादिहविर्निष्पादयन्ती । त्वम् आगच्छेति शेषः । ते तव अयं गोप- तिः गोस्वामी । तं जुषस्व सेवस्व । एनं मृतं पुरुषं स्वर्ग लोकम् अधि रोहय प्रापय ॥ पितृमेधे 1चतुर्थेऽहनि संचयनाख्ये कर्मणि “उप द्यामुप वेतसम्" इति पञ्चमीषष्ठीभ्यां मन्त्रो2क्ता ओषधीरभिमन्त्र्य ताभिः क्षीरेण ब्राह्मण- स्य अस्थीनि अवसिञ्चे3त् । तांश्च ओषधयः वेतसाश्च कर्णी [च] नदीफेनं च अवका च गर्हका च बृहद्दूर्वा च मण्डूकपर्णी 4चेत्येवमाद्याः ॥ पञ्चमी ॥ उप द्यामुपं वेतसमवेतरो नदीनाम् । अग्ने पित्तमपामसि ॥ ५॥ RkR वेतस. We with CV. D: वेतस changeel to वेतस. RBK V Dc fara-

  1. º. We with ACR.

15 चतुयें इति for चतुर्थेऽहनि. 2 So Kesata too: उपद्यामुप वेतसमिति वे शं ते नी- हार इत्येका। पताभिऋग्भिर्मन्त्रोक्तानाम् ओषधीनाम् उदकं क्षीरं चैकत्र कृत्वा अभिमन्त्र्य ब्राह्मण- स्थास्थीनि निषिञ्चति । मन्त्रोक्ता ओषधय उच्यन्ते । वेतसश्च कर्णश्च नदीफेनश्च अवका च गरुहेरु- का च बृहर्वा च आकाशफेनश्च मण्डूकपर्णी च श्रक्तिका च । एता मन्त्रोक्ता ओषधयः ॥ (XI-3). 3 After this S las a lacuna for about sixteen letters and omits the text of the next (fifth ) verse giving merely the commentary. 4 S omits à 5 This portion is in S mixed up with the commentary on verec 5.