पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२३ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । गच्छन्ति एभिरिति अञ्जयानाः तैः पथिभिर्गच्छतम् इमं प्रेतं गमय- तम् । प्रयोज्यव्यापारवाचिना प्रयोजकव्यापारो लक्ष्यते ॥ चतुर्थी ॥ पूषा त्वेतश्च्यावयतु प्र विधाननष्टपशुर्भुवनस्य गोपाः । स त्वैतेभ्यः परि ददत् पितृभ्योडग्निर्देवेभ्यः सुविदत्रियेभ्यः ॥ ५४॥ पूषा । वा। इतः । च्यवयतु । प्र। विद्वान् । अनष्टऽपशुः । भुवनस्य । गोपाः। सः । त्वा । एतेभ्यः । परि । ददत् । पितृऽभ्यः । अग्निः । देवेभ्यः । सुऽवि- त्रियेभ्यः ॥ ५४॥ हे प्रेत त्वा त्वां विद्वान् जानन् पूषा एतत्संज्ञको देवः इतः अस्मात् स्थानात् प्र च्यावयतु निर्गमयतु । कीदृशः पूषा । अनष्टपशुः अनष्ठा अहताः पशवो येन स तथोक्तः । स खलु गवादिपशूनां पोषयिता । 'पूषा पोषयतु" [ ब्रा॰ १. ६.२.२] “पूषा गा अन्वेतु नः पूषा र- क्षावर्वतः” इत्यादिश्रुतेः [ऋ० ६. ५४. ५] । भुवनस्य भूतजातस्य गो- पाः गोपायिता। गुपू रक्षणे । “गुपूधूपविच्छि” इति आयम- त्ययः । क्विपि अतो ल1ोपे यलोपविधिं प्रति न2 स्थानिवद् भवतीति त- स्य स्थानिवत्वनिषेधात् “लोपो व्योर्वलि" इति यकारलोपः । स पूषा त्वा त्वाम् एतेभ्यः पितृभ्यः । एतच्छब्देन संनिहितार्थवाचिना मृत. पुरुषसंबन्धिनः पितरः परामृश्यन्ते । त्वदीयेभ्यः पितृपितामहप्रपितामहे- भ्यः परि ददात् परिददातु । रक्षणार्थ दानं परिदानम् । तद्यो- गे चतुर्थी विभक्तिर्भवति । “अग्नये त्वा परिददामि" [कौ॰ ७.७] इत्यादौ तथा दर्शनात् । परिपूर्वाद् ददातेर्लेटि आडागमः । " इतश्च लोपः" इति इकारलोपः । तथा अग्निर्देवः दहनसंस्कारेण त्वा सुविदत्रियेभ्यः । सुविदत्रं शोभनविज्ञानम् यद्वा सुखेन लब्धव्यं धनं सु- PA Koppement aft°. Corazzhy alfatº ( for ofta atritº?). We with B RV २ CP प्रऽविद्वान् ।. P। विद्वान् । 66 स तद्यो- De. 18 लोप. 28 प्रतिवस्थानि for प्रति न स्थानि