पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२१ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। तत्र प्रथमा । इदमिद् वा उ नापरं जरस्यन्यदितोपरम् । जाया पतिमिव वाससाभ्ये नं भूम ऊर्णुहि ॥ ५१ ॥ इदम्। इत् । वै। ऊ इति । न । अपरम् । जरसि। अन्यत् । इतः। अपरम्। जाया। पतिमऽइव । वाससा । अभि। एनम् । भूमे। ऊर्णुहि ॥५१॥ जरसि जरायां जीर्यदवस्थायां यद् अन्नादिकम् उपभुक्तम् इदम् इद् वा उ इदमेव खलु परिशिष्टम् नापरम् अन्यद् भोक्तव्यम् अस्ति । इ. तः अस्मात् श्मशानदेशाद् अन्यत् स्थानमपि अस्य न विद्यते अपरं कार्यजातमपि अस्य न संभवति । इत्थं श्मशाने परित्यक्तम् एनम् हे भूमे जाया भार्या पतिं वाससेव अभ्यूर्णुहि अभिप्रच्छादय ॥ द्वितीया ॥ अभि त्वोर्णोमि पृथिव्या मातुर्वस्त्रेण भद्रया । जीवे भद्रं तन्मयि खधा पितृषु सा त्वयि ॥ १२ ॥ अभि । त्वा । ऊर्णोमि । पृथिव्याः । मातुः । वस्त्रेण । भद्रया । जीवेषु । भद्रम् । तत् । मयि । स्वधा । पितृषु । सा । त्वयि ॥ ५२ ॥ मातुः सर्वजनन्याः भद्रया । षष्ठ्यर्थे तृतीया। भद्रायाः कल्याण्याः पृथिव्याः भूम्याः संबन्धिना वस्त्रेण वाससा हे मृतपुरुष त्वा त्वाम् अभि प्रोणोमि अभिच्छादयामि । जीवेषु प्राणधारिषु जीवद- वस्थावित्सु मनुष्येषु मध्ये यद्] दानाय [भद्रम्] शोभनं वस्वस्ति तन्मयि संस्कर्तरि भवतु । पितृषु पितृदेवतासु या स्वधा विद्यते । स्वधेति अ- न्ननाम् । स्वधाकारेण हूयमानं हविर्लक्षणम् अन्नं यद् अस्ति सा स्वधा त्वयि मृतपुरुषे भवतु । यद्वा स्वैज्ञातिर्भिर्धीयते विधीयत इति स्वधा पिण्डोदकदानादिरूपा पितृतृप्तिकरी क्रिया स्वधा । सा त्वयि भव-त्वित्यर्थः ॥ 18 Fira, 2 So S'. The text in 8 is for front and not authorit.