पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१२० अथर्वसंहिताभाष्ये दशमी॥ इदमिद् वा उ नापरं दिवि पश्यसि सूर्यम् । माता पुत्रं या सिचाभ्येनं भूम ऊर्णुहि ॥ ५० ॥ (११) इदम् । इत् । वै। ऊ इति । न । अपरम् । दिवि । पश्यसि । सूर्यम् । माता । पुत्रम् । यो । सिचा । अभि । एनम् । भूमे । ऊर्णिहि ॥५०॥ हे मृतपुरुष इदम् इद् वा उ इदमेव खलु तव जीवनम् यद् अ- स्माभिः श्राद्धेषु दीयते । अपरम अन्यद् न किंचिद् अस्ति । अत्रैव श्म- शानदेशे निवसन् सूर्य दिवि आकाशे पश्यसि ॥ उत्तरोर्धर्चः परोक्षकृतः । यथा येन प्रकारेण माता जननी सिचा चेलाञ्चलेन स्वकीयं पुत्रम् अ- भिवृणोति आच्छादयति हे भूमे पृथिवि एनं 1श्मशानस्थं मृतम् अभ्यू- र्णुहि स्वतेजसा प्रच्छादय । शीतवातोष्णादिकं यथैनं न प्राप्नोति तथा त्वत्स्वरूपे अन्तर्भावयेत्यर्थः । ऊर्णुञ् छादने ॥ [इति ] द्वितीयेनुवाके पञ्चमं सूक्तम् ॥ “इदमिद् वै” इति ऋचोराद्ययोः श्मशानदेशे शलाकाभिश्चयनकर्म- णि विनियोग उक्तः ॥ 'अग्नीषोमा पथिकृता"[५३] इति तिसृभिः प्रेतम् उत्थाप्य दहनाय शकटे निदध्यात् ॥ "इमौ युनज्मि" [५६] इत्यनया सप्रेते शकटे वृषभद्वयम् अभिमन्त्र्य “ युञ्ज्यात् ॥ 66 एतत् त्वा वासः"[५७] इत्यनया वासोऽभिमन्त्र्य प्रेतं प्रच्छादयेत् ॥ अग्नेर्वर्म" [५] इत्यनया सप्तच्छिद्रया गो(वपया] प्रेतमुखं प्रच्छा- दयेत् ॥ "दण्डं हस्तात्" [५९] इत्यनया प्रेतब्राह्मणहस्ताद् वेदयष्टिं पुत्रो गृ- ह्णियात् ॥ 'धनुर्हस्तात्"[६०] इत्यनया प्रतक्षत्रियहस्ताद् धनुर्गह्णीयात् ॥ 66 ". १०सिचा अभ्यैनं. We with ABRDc. RC पश्यसि ।