पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

[अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । ११९ उदनऽवती । द्योः। अवमा । पीलुऽमती । इति । मध्यमा। तृतीया । ह । प्रडद्यौः । इति । यस्याम् । पितरः । आसते ॥ ४ ॥ पितृलोकस्य सर्वोत्कृष्टतां वक्तुं दिवस्वैविध्यं प्रतिपाद्यते । अवमा अ- धःकक्ष्यां गता द्यौः उदन्वती उदकवती यस्याम् अवस्थिता मेघाः प्रव- र्षन्ति तस्या उदन्वतीति संज्ञेत्यर्थः ॥ मध्यमा 1मध्यकक्ष्यां गता द्यौः पीलुमती इत्युच्यते । पालयन्तीति पीलवः ग्रहनक्षत्रादियः । ते यस्यां सन्नीति पीलुमती । तृतीया ह । 2हशब्दः प्रसिद्धौ । प्रद्यौरिति प्रसि- द्वा । प्रकृष्टफलोपेता द्यौः प्रद्यौः । यस्यां तृतीयस्यां दिवि नाकपृष्ठाख्ये स्थाने पितरः पितृदेवता आसते निवसन्ति ॥ नवमी॥ ये नः पितुः पितरो ये पितामहा य आविविशुरुवन्तरिक्षम् । य आक्षियन्ति पृथिवीमुत द्यां तेभ्यः पितृभ्यो नमसा विधेम ॥ ४९ ॥ ये। नः । पितुः । पितरः । ये । पितामहाः । ये । आऽविविशुः । उरु । अन्तरिक्षम्। ये। आऽक्षियन्ति । पृथिवीम् । उत । द्याम् । तेभ्यः । पितृऽभ्यः । नम॑सा । विधेम ॥४९॥ नः अस्माकं पितुस्तातस्य ये पितरः जनकाः । ये च पितामहास्त- ज्जनकाः । पूजार्थं बहुवचनम् । ये च अन्ये उरु विस्तीर्णम् अन्तरि- क्षम् आविविशुः आविष्टवन्तः । ये च पृथिवीम् आक्षियन्ति अभिनिव- सन्ति । पृथिव्यां वर्तन्त इत्यर्थः । उतशब्दः अप्यर्थे । ये च द्याम् स्व- र्गलोकम् आक्षियन्ति आश्रित्य निवसन्ति । इत्थं लोकत्रयं व्याप्य वर्तन्त इत्यर्थः । तेभ्यः सर्वेभ्यः पितृभ्यः । तादर्थ्ये चतुर्थी ।न- मसा । नम इति अन्ननाम । हविर्लक्षणेन अन्नेन नमस्कारेण वा विधे- म परिचरेम । विधतिः परिचरणकर्मा ॥ See foot-note on the previous page. 18 मध्यकक्षा 2 S has a lacuna of about seventeen letters here.