पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११६ अथर्वसंहिताभाष्ये र्याय । षष्ठ्यथें चतुर्थी। सूर्यस्य दृशये दर्शनाय भवतु । प्राणादिभिः सहिताः सूर्य पश्यन्तश्चिरकालम् 1अवतिष्ठेमहीत्यर्थः ॥ हे मृ- तपुरुष त्वं यमराज्ञः यमश्चासौ राजा यमराजा तस्य स्वभूतेन अप रिपरेण । परिपरिणः पर्यवस्थातारश्वोराः । तद्रहितेन पथा मार्गेण पि- तृन् गच्छ प्राप्नुहि ॥ सप्तमी॥ ये अग्रेवः शशमानाः परेयुर्हित्वा द्वेषांस्यनपत्यवन्तः । ते धामुदित्याविदन्त लोकं नाकस्य पृष्ठे अधि दीध्यानाः ॥ ४७ ॥ ये। अग्रवः । शशमानाः । पराऽईयुः । हित्वा । द्वेषांसि । अनपत्यऽवन्तः । ते। धाम । उतऽइत्यं । अविदन्त । लोकम् । नाकस्य । पृष्ठे । अधि । दी- ध्यानाः॥४७॥ शशमानाः । शशमानः शंसमान इति यास्कः [नि०६..] । य- द्वा शश पुतगतौ । ताच्छीलिकश्चानश् । पुतगमनशीला अग्रवः अग्रगामिनो ये पितरः अनपत्यवन्तः अपत्यरहिता द्वेषांसि द्वे. षणीयानि पापानि हित्वा त्यक्त्वा परेयुः पराजग्मुः । अमृषतेत्यर्थः । ते पितरो द्याम् अन्तरिक्षम् उदित्य उद्गत्य ऊर्ध्व गत्वा नाकस्य दुःखसंस्पर्श- रहितस्य स्थानस्य पृष्ठे उपरिभागे । अधिः सप्तम्यर्थानुवादी । अधिकं वा दीध्यानाः दीप्यमाना लोकम् सुकृतफलोपभोगस्थानम् अविदन्त अल- भन्त । विदू लाभे । लृदित्वाद् आत्मनेपदेपि व्यत्ययेन च्लेः अङ् आदेशः । यद्वा लङि “अनित्यम् आगमशासनम्" इति नुमभावः ॥ . अष्टमी॥ उदन्वती द्यौरवमा पीलुमतीति मध्यमा । तृतीया ह प्रद्यौरिति यस्यौ पितर आसते ॥ ४ ॥ RCB अग्रवः. De अनवः corrected to अग्रवः. We with Bk VOP. RCP अविद- न्त। ३ ACR उदन्वती. Dc उदन्वती corrected to उदन्वती. C उन्हवती ।. We with BKV De. 15 अवतिष्ठतही• for अवतिष्ठेमही.