पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२१

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११७ 1 [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। पञ्चमी । अमासि मात्रां स्वरगामायुष्मान् भूयासम् यथापरं न मासातै शते शरत्सु नो पुरा॥४५॥ अमासि । मात्राम् । स्वः । अगाम। आयुष्मान । भूयासम् । यथा । अपरम् । न । मासातै। शते । शरतऽसु । नो इति । पुरा ॥४५॥ मात्राम् श्मशानदेशस्य परिमाणम् अमासि परिच्छेदितवान् अस्मि । उदीरितरीत्या समीचीनं मानम् अकृषीत्यर्थः । माङ् माने इत्य- स्मात् लुङि उत्तमैकवचने रूपम् । तेन मानेन स्वः अगाम स्व- र्ग लोंकं गतोस्मि । भाविस्वर्गलोकप्राप्तिस्तस्य मानस्य फलम् इत्यर्थः । .द्वा अन्तर्भावितण्यर्थे एतिर्वर्तते । अगाम् अगमयम् इत्यर्थः“इणो गा लुङि" इति गादेशः ।तेन च मा- नकर्मणा अहम् आयुष्मान् शतसंवासरपरिमितेन आयुषा युक्तो भूया- सम् । यथापरं न मासातै इत्यादि मागुक्तार्थम् ॥

षष्ठी ॥ प्राणो अपानो व्यान आयुश्चक्षुर्दृशये सूर्याय । अपरिपरेण पथा यमराज्ञः पितॄन् गच्छ ॥ ४६ ॥ प्राणः । अपानः । विऽआनः । आयुः । चक्षुः । दृशये । सूर्याय । अपरिऽपरेण । पथा। यमराज्ञः। पितॄन् । गच्छ ॥ ४६ ॥ मुख्यप्राणस्य तिस्रो वृत्तयः प्राणाद्याः । 1मुखनासिकाभ्यां बहिर्निःस- रन् वायुः प्राणः । अन्तर्गच्छन् अपानः । मध्यस्थः सन् अशितपीता- दिकं विविधम् आनिति कृत्स्नदेहं व्यापयतीति व्यानः । आयुः जीवनं शतसंवत्सरपरिमितम् । चक्षुः नीलपीतादिदर्शनसाधनम् इन्द्रियम् । ए- तच्च उपलक्षणम् अन्येषाम् इन्द्रियाणाम् । सर्वम् एतद् अनुक्रान्तं सू- १CP मासते. RPPUT I. Cp qu. The Sahità SS. all give got and not यथा. 18 मुख्य