पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१२०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११६ अथर्वसंहिताभाष्ये अत्र वीत्युपसर्गेण 1श्मशानदेशमानस्स विशिष्टगुणयोगः प्रदर्शितः । अन्यत् पूर्ववत् ॥ द्वितीया ॥ निरिमा मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ४२ ॥ निः । इमाम् । मात्राम् । मिमीमहे । यो । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ४२ ॥ 2अत्र निरित्युपसर्गेण निर्गतदोषता मानस्य प्रतिपाद्यते । अन्यात् समा- नं पूर्वेण ॥ तृतीया ॥ उदिमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ४३ ॥ उत् । इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ४३ ॥ उद् इत्युपसर्गेणात्र मानस्य उत्कर्षगुणोभिधीयते । गतम् अन्यत् ॥ चतुर्थी ॥ समिमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥४४॥ सम् । इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ४४ ॥ इमां श्मशानदेशस्य मात्रां सं मिमीमहे । उदीरितगुणयोगेन सम्यग् मिमीमहे3 । अत्र प्रत्यृचं यथापरं न मासातै इत्यादिरावर्त्यते । तस्या- यम् अभिप्रायः । पुनःपुनःप्रार्थनया आदरातिशयद्योतिन्या प्रार्थमानोऽर्थः सर्वथा सिध्यतीति । गतम् अन्यत् ॥ १CP मासते। 18 स्मशान: 28 तत्र. 38 om. महे । अत्र प्रत्यृचं यथा and has instead a lacund for about twelve letters.