पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११९

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११५ [अ०२. सू.२.] ५४२ अष्टादशं काण्डम् । दशमी ॥ अपेमां मात्रां मिमीमहे यथापरं न मासातै । शते शरस्तु नो पुरा ॥४०॥ (१०) अप । इमाम । मात्राम । मिमीमहे । यथा । अपरम् । न । मासातै। शते । शरतऽसु । नो इति । पुरा ॥ ४० ॥ (१०) अत्र1 अप इत्युपसर्गेण अपगतदोषता मानस्य प्रतिपाद्यते । तदोषाश्च श्मशान2लक्षणे निषिध्यन्ते । यथाह भारद्वाजः । “दहनदेशं जोषयते द- क्षिणाप्रत्यक्प्रवणम् अनिरिणम् असुषिरम् अनूषरम् अभङ्गुरम्” इत्या- दिना । अन्यात् पूर्ववत् ॥ [इति] द्वितीयेनुवाके चतुर्थ सूक्तम् ॥ “वीमा मात्रां मिमीमहे” इति आदितश्चतसृणाम् ऋचां श्मशानप्र- माणकरणे विनियोग उक्तः ॥ "अमासि मात्राम्"[४५] इति तिसृभिः पूर्वोक्तप्रकारेण मितं श्म- शानप्रदेशम् अनुमन्त्रयेत ॥ "उदन्वती" [४०] इति द्वाभ्यां मेतम् उत्थाप्य शकटे शयने वा निदध्यात् ॥ "ये नः पितुः पितरः"[४९] इति द्वाभ्यां प्रेतशरीरे संदीपितेऽनौ या3म्यहोमं कुर्यात् ॥ "इदमिद् वा"[५०] इति तिसृभिः श्मशानदेशं विषमसंख्याकाभिः शलाकाभिः इष्टकाभिर्वा प्रसव्यं चिनुयात् ॥ तत्र प्रथमा। वीइमां मात्रां मिमीमहे यथापरं न मासातै । शते शरत्सु नो पुरा ॥ ४१॥ वि। इमाम् । मात्राम् । मिमीमहे । यथा । अपरम् । न । मासातै । शते । शरतऽसु । नो इति । पुरा ॥ ४१ ॥ 18 तत्र. 28 स्मशान. 38' यम्य.