पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११७

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

मा अ- [अ०२. सू०२.] ५४२ अष्टादशं काण्डम् । ११३ शम । तप । मा। अति । तपः । अग्ने। मा। तन्वम् । तपः। वनेषु । शुष्मः । अस्तु । ते । पृथिव्याम्। अस्तु । यत् । हरः ॥३६॥ हे अग्ने शम् सुखं यथा भवति तथा प्रेतशरीरं तप दह। मा अ- ति तपः अतितापं मा कार्षीः । अतिदहने हि अस्थीन्यपि भस्मीभव- न्ति तेषां संचयनादिसंस्कारेण प्रतिविधानाद् अतिदाहो निषिध्यते । तथा तन्वः शरीराणि अस्मासंबन्धीनि मा तपः मा धाक्षीः । तथा ते त्व- दीयः शुष्मः शोषको ज्वालासमूहो वनेषु अरण्येषु अस्तु भवतु । हरः रसहरणशीलं यत् त्वदीयं तेजस्तत् पृथिव्याम् भूम्याम् अस्तु भवतु ॥ सप्तमी॥ 1 ददाम्यस्मा अवसानमेतद् य एष आगन् मम चेदभूदिह । यमश्चिकित्वान् प्रत्येतदाह ममैष राय उप तिष्ठतामिह ॥ ३७॥ ददामि । अस्मै । अवऽसानम् । एतत् । यः । एषः । आऽअगन् । मम । च । इत् । अभूत् । इह यमः । चिकित्वान् । मति । एतत् । आह । मम । एषः। राये । उप। ति- ष्ठताम् । इह ॥३७॥ यमो ब्रूते । अस्मै मृताय पुरुषाय अवसानम् । अवस्यन्ति निक्स- न्ति अस्मिन्निति अवसानम् आवासस्थानम् । एतत् स्थानं ददामि [यत यस्मात् कारणात् एष पु]रुषः आगन् मत्समीपम् अगमत् । मेर्लुडि मन्त्वे पस इति ब्लेर्लृक् । “मो नो धातोः" इति न- त्वम्। स च आगतः पुरुषः इह अस्मिन् लोके मम संबन्धी अभूच्चेत् । यदि मत्संबन्धी मत्परिचरणशीलो भवेद् इत्यर्थः । तदा अस्मै आगतायेति पूर्वेण संबन्धः । एवं चिकित्वान् जानन् यमो मृतं पुरुष प्रति एतद् वाक्यम् आह ब्रवीति । एषः मासमीपम् आगतः पुरुषः See foot-note on the previous page. Cryh: 1. CP TI. Craft 1. 18 has ETA for fH and then a lacuna for about ten letters. is supplied from Sảyana's text which reads can instead of 4 4. "मन्त्रे घस " 2 This यत् १५