पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११६

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११२ अथर्वसंहिताभाष्ये स्थितान् तान् सर्वान् पितॄन् हविषे अत्तवे अस्माभिर्दतं हविर्भक्षयितुम् हे अग्ने आ वह आनय । "क्रियाग्रहणं कर्तव्यम्" इति कर्मणः संप्रदानत्वात् हविःशब्दाच्चतुर्थी । अद भक्षणे इत्यस्मात् "तुमर्थे सेसेन्' इति तवेन् प्रत्ययः ॥ पञ्चमी॥ 1 ये अग्निग्धा ये अनग्निदग्धा मध्ये दिवः स्वधयो मादयन्ते । त्वं तान् वेत्थ यदि ते जातवेदः स्वधयां यज्ञं स्वर्धितिं जुषन्ताम् ॥३५॥ ये। अग्निऽदग्धाः । ये । अनग्निऽदग्धाः। मध्ये। दिवः । स्वधया । मादयन्ते त्वम् । तान् । वेत्थ । यदि । ते । जातऽवेदः । स्वधया । यज्ञम् । स्वडधि- तिम् । जुषन्ताम् ॥ ३५॥ ये पितरः अग्निदग्धाः अग्निना संस्कृताः । ये च अनग्निदग्धाः अ- निदाहरहितेन खननादिसंस्कारेण संस्कृता दिवः धुलोकस्य मध्ये स्वध- या । अन्ननामैतत् । पुत्रादिभिर्दतेन पिण्डरूपेण हविषा । यद्वा स्वधा- कारोपलक्षितेन पिण्डपितृयज्ञादिकर्मणा मादयन्ते ह्रष्टास्तृप्ता वर्तन्ते हे जातवेदः जातानां वेदितरग्ने. त्वं तान् सर्वान् पितृन् यदि वेत्थ जा- नासि । “यदि वेदाः प्रमाणं स्युः” इतिवद् निश्चये यदिशब्दः । त्वमेव तान् निश्चयेन जानासीत्यर्थः । ते सर्वे स्वधायाः संबन्धिनम् अस्मदीयं यज्ञं स्वधितम् । स्वधा संजाता यस्य स तथोक्तः । xतारकादित्वाद् इतच् प्रत्ययः । यद्वा स्वैर्ज्ञातिभिः पुत्रपौत्रादिभिः हितं विहितं कृतम् ईदृशं यज्ञं जुषन्ताम् सेवन्ताम् ॥ षष्ठी॥ शं तप माति तपो अग्ने मा तन्वं १ तपः । वनेषु शुष्मो अस्तु ते पृथिव्यामस्तु यद्धरः ॥ ३६ ॥ १C B यदि ते जातवेदः. CP ते।. D यदि ते जातवेदः changed to यदि ते जातवेदः. We with A KR. CP af. We with the Sarīlitâ. ABCÔR Dcera I तपः. CP तपः. Only v recites : तन्वं तपः. The latter is the correct accent, but re. quires further confirmation.