पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११५

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१११ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। ण्युस्तत्तेजः असहमाना स्वसमानरूपाम् अन्यां प्रतिनिधाय आश्वं रूपं कृत्वा प्रदुद्राव । सोपि विवस्वान् तज्जानन् आश्वमेव रूपं कृत्वा तां स- मभवत् । ततः अश्विनौ जज्ञाते । प्रतिनिहितायां सवर्णायां विवस्वत आ- दित्याद् मनुर्जज्ञ इत्ययम् अर्थोत्र प्रतिपाद्यते ॥ मर्त्येभ्यः मरणधर्मभ्यो म- नुष्येभ्यः अमृतानं् मरणधर्मरहितान् आत्मनः देवा अपागूहन् तिरोहि- तान् अकुर्वन् । अमृतत्वप्रापकं स्वकीयं रूपं देवा मनुष्येभ्यः 1प्राच्छाद- यन् । गुहू संवरणे ।तथा सवर्णाम् समानरूपाम् अन्यां स्त्रियं कृत्वा विवस्वते आदित्याय अदधुः अधारयन् । प्रायच्छन्नित्यर्थः । उत अपि च सरण्य्वा यद् आश्वं रूपं तदानीं स्वीकृतम् आसीत् तत् अश्विनौ अभरत समभरत । उदपादयद् इत्यर्थः । यद्वा अश्वभूतयोः सरण्युविवस्वतोर्यद् रेत आसीत् तद् अश्विनावजनयद् इत्यर्थः । सा च सरण्यस्त्वष्टृदुहिता निर्गमनसमये द्वा द्वौ मिथुना मिथुनौ स्त्रीपुंसात्मकौ अजहात् पर्यत्यजत् । ओहाक् त्यागे । उशब्द: अवधार- णे मिथुने2त्यत्र “वा छन्दसि” इति पूर्वसवर्णदीर्घः ॥ चतुर्थी ॥ ये निखाता ये परोप्ता ये दुग्धा ये चोद्धिताः । सर्वास्तानग्न आ वह पितॄन् हविषे अत्तवे ॥ ३४ ॥ ये। निऽखाताः । ये । पराऽउप्ताः । ये । दुग्धाः । ये । च। उद्धिताः । सर्वान् । तान् । अग्ने । आ । वह । पितृन् । हविर्षे । अत्तवे ॥ ३४ ॥ ये पितरः भूमौ निखाताः निखननसंस्कारेण संस्कृताः । ख- नु अवदारणे । कर्मणि निष्ठा । जनसनखनां सन्झलोः” इति आ- त्वम् । ये च पितरः परोप्ताः परावपनं दूरदेशे काष्ठवत्परित्या- गः । तेन संस्कृताः । ये च दग्धाः अग्निना संस्कृताः । ये च उद्धि- ताः संस्कारोत्तरकालम् ऊर्ध्वदेशे पितृलोके स्थिताः । एवं बहुविधाव- PP sfegat: 1. We with Ch. 13 प्रच्छादयन् for प्राच्छादयन्. 28 om. नेत्यत्र या छन्दसि इति पू° and has a la- उद्धिताः । ख- & “ cuna for ten letters instead.