पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११४

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

११० अथर्वसंहिताभाष्ये यमः । परः । अवरः । विवस्वान् । ततः । परम् । न । अति । पश्यामि । किम् । चन। यमे । अध्वरः । अधि । मे। निडविष्टः । भुवः । विवस्वान् । अनुऽआत- तान ॥ ३२॥ यमः विवस्वतः पुत्रः परः तेजसा 1अधिकोभवत् । विवस्वान् यमस्य पिता आदित्यः अवरः तेजसा न2िकृष्टोभवत् । यमस्तेजसा पितुरपि अ- धिकोभवद् इत्यर्थः । 3ततः तस्माद् यमात् परम् उत्कृष्टं किं चन कि- मपि प्राणिजातं नाति पश्यामि अतिक्रान्तं न जानामि । तस्मिन् सर्वो- त्कृष्टे यमे मे मदीयः अध्वरो यज्ञः अधि निविष्टः अधिकम् अवस्थितः । तत्प्रीतिकरो वर्तत इत्यर्थः । 4यज्ञस्य सिद्धये विवस्वान् तत्पिता सूर्यः भुवः भूप्रदेशान् अन्वाततान स्वकिरणैर्विस्तारितवान् । तनु विस्तारे॥ तृतीया ॥ अपागूहन्नमृतां मर्त्येभ्यः कृत्वा सवर्णामदधुर्विवस्वते । उताश्विनावभरद् यत् तदासींदजहादु द्वा मिथुना सरण्यूः ॥ ३३ ॥ अपं । अगृहन् । अमृताम् । मर्त्येभ्यः । कृत्वा । सऽवर्णाम् । अदधुः । विवस्वते । उत । अश्विनौ । अभरत । यत् । तत् । आसीत् । अजहात । ऊ इति । द्वा। मिथुना । सरण्यः ॥ ३३ ॥ "त्वष्टा दुहित्रे" [१. ५३] इत्यत्र इतिहासोभिहितः । सोत्र ऋगर्थ- प्रतिपत्तये पुनः स्मार्यते । तष्ट्रदुहिता सरण्युर्नाम विवस्वत आदित्याद् यमौ मिथुनौ जनयांचकार । तौ च यमलौ यमश्च यमी चेत्याहुरैति- हासिकाः । माध्यमिकोग्निमाध्यमिका वाक् चेति नैरुक्ताः । ततः सर- १R °मृतान् for °मृतां. Dc °मृतान् changed to °मृतां. P* अमृताम् ।. CP अमृता ।. We with A BC K. २ अगूहम् ।. Cr गृहन् (sic)1. ३ CP सरण्यः । 18 अधिकोमवतु. 28 निकृष्टोभवतु. 48' has are repeated. 38 अतः. 5Shsa for ततः.